SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ पदं- १८, उद्देशकः, द्वारं - ५ ९५ न वाग्योगो मनोयोगो वा, ततः शेषयोगासम्भवात्तेष्वाकायस्थितेः सतंत काययोग इति मतं, अयोगी च सिद्धः, स च साद्यपर्यवसित इत्ययोगी साद्यपर्यवसित उक्तः । गतं योगद्वारमिदानीं वेदद्वारं प्रतिपिपादयिषुराह-: पदं - १८, दारं - ६ "वेद" : , मू. (४७८) सवेदए णं भंते! सवेदएत्ति० ?, गो० ! सवेदए तिविधे पं० तं०-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिए सादीए वा सपज्जबसिए, तत्थ णं जे से सादीए सपज्जवसिए से जह० भंतो० उक्को० अणंतं कालं अनंताओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो अवडं पोग्गलसपरियहं देसूणं, इत्यिवेदे णं भंते! इत्यिवेदेत्ति काल० ?, गो० ! एगेणं आदेसेणं जह० एवं समयं उक्को ० दसुत्तरं पलिओवमसतं पुव्वकोडिपुहुत्तमब्भहियं १, एगेणं आदेसेणं जह० एवं समयं उक्को९ अट्ठारसपलितोवमाइं पुव्वकोडिपुहुत्तममहियाई २, एगेणं आदेसेणं ज० एवं समयं उक्को० चउद्दस पलि ओवमाइं पुब्वकोडिपुहुत्तमब्भहियाई ३, एगेणं आदेसेणं ज० एवं समयं उक्को० पलिओवमसतं पुव्वकोडिपुहुत्तमब्भहियं ४, एगेणं आदेसेणं जह० एवं समयं उक्को० पलितोवमपुहुत्तं पुव्वकोडि पुहुत्तममहियं ५, पुरिसवेदे णं भंते! २?, गो० ! जह० अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, नपुंसगवेए णं भंते! नपुंसगवेदेत्ति, पुच्छा, गो० ! ज० एवं समयं उक्को० वणस्सइकालो, अवेदए णं भंते! अवेदएत्ति पुच्छा, गो० ! अवेदे दुविधे पं०, तं०-सादीए वा अपञ्जवसिए साइए वा सपावसिते, तत्थ णं जे से साइए सपञ्जवसिते से जहन्नेणं एवं समये उक्को० अंतो० वृ. 'सवेदए णं भंते' इत्यादि, सह वेदो यस्य येन वा स सवेदकः, 'शेषाद्वे' ति कप्रत्ययः स च त्रिविधः, तद्यथा अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च तत्रयः उपशमश्रेणि क्षपक श्रेणि वा जातु कदाचिदपि न प्राप्स्यति सोऽनाद्यपर्यवलसितः, कदाचिदपि तस्य वेदोदयव्यवच्छेदासम्भवात्, यस्तु प्राप्स्यति उपशमश्रेणिं क्षपक श्रेणिं वा सोऽनादिसपर्यवसितः, उपशमश्रेणितप्रतिपत्तौ क्षपक श्रेणिप्रतिपत्तौ वा वेदोदव्यवच्छेदस्य भावित्वात्, यस्तूपशमश्रेणिं प्रतिपद्यते तत्र चावेदको भूत्वा भूय उपशमश्रेणीतः प्रतिपतन् सवेदको भवति स सादिसपर्यवसितः, स च जघन्यतोऽन्तर्मुहूर्तं कथमिति चेत् ?, उच्यते, इह यदा कोऽपि उपशमश्रेणि उपपद्य त्रिविधमपि चेदमुपशमय्यावेदको भूत्वा पुनरपि श्रेणीतः प्रतिपतन् सवेदकत्वं प्राप्य झटित्युपशमश्रेणिं कार्मग्रन्थिकाभिप्रायेण क्षपकश्रेणि वा प्रतिपद्यते प्रतिपद्य च वेदत्रयमुपशमयति क्षपयति वा अन्तर्मुहूर्तेन तदा जघन्येनान्तर्मुहूर्त सवेदकः उत्कर्षतोऽपार्द्धपुद्गलपरावर्त्त देशोनं, अपगतमर्द्धं यस्य सोऽपार्द्धः देशोन:- किञ्चिदूनः, उपशमश्रेणितो हि प्रतिपतित एतावन्तं कालं संसारे पर्यटति, ततो यथोक्तमुत्कर्शषतः सादिसपर्यवसितस्य सवेदकस्य कालमानमुपपद्यते । स्त्रीवेदविषये च पञ्चादेशास्तान् क्रमेण निरूपयति- 'एगेणं आदेसेणमित्यादि, तत्र सर्वत्रापि . जघन्यतः समयमात्रभावनेयं - काचित् युवतिरुपशमश्रण्यां वेदत्रयोपशमेनावेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकसमयमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy