________________
९१
पदं-१८, उद्देशकः-, द्वारं-४ सहस्साइं, तसकाइयपजत्तएपुच्छा, गोयमा! जहन्नेणं अंतोमुहतंउक्कोसेणंसागरोवमसयपुहुतंसातिरेगं ।
इ.सकाइएणंभंते!' इत्यादि, सह कायो यस्ययेन वा ससकायः"सकाय एव सकायिकः आर्षत्वात् स्वार्थे इकप्रत्ययः, कायः-शरीरं, तच्चदारिकवैक्रियाहारकतैजसकार्मणभेदात् पञ्चधा, तत्रेह कार्मणं तैजसं वा द्रष्टव्यं, तस्यैवाऽऽसंसारभावात्, अन्यथा विग्रहगतौ वर्तमानस्य शरीरपर्याप्तया पर्याप्तस्य च शेषशरीरासंभवादकायिकत्वं स्यात्, तथा च सति निर्वचनसूत्रप्रतिपादितं द्वैविध्यं नोपपद्यते, अथ निर्वचनसूत्रमाह___'काइए दुविहे पन्नत्ते'इत्यादि, तत्र यः संसारपारगामी न भविष्यति सोऽनाद्यपर्यवसितः कदाचिदपि तस्य कायस्य व्यवच्छेदासंभवात्, यस्तु मोक्षमदिगन्ता सोऽनादिसपर्यवसितः तस्य मुक्त्यवस्थासंभवे सर्वात्मना शरीरपरित्यागात्, पृथिव्यप्तेजोवायुवनस्पतिसूत्राणि सुगमानि, अन्यत्रापि तदर्थस्य प्रतीतत्वात्, तथा चोक्तं॥१॥ "असंखोसप्पिणिओसप्पिणीओ एगिदियाण उ चउण्हं ।
ता चेव उ अणंता वणस्सइए उ बोद्धव्वा ॥" ननु यदि वनस्पतिकालप्रमाणं असङ्ख्येयाः पुद्गलपरावर्तास्ततो यद्गीयते सिद्धान्तेमरुदेवाजीवो यावजीवभावंवनस्पतिरासीदिति, तत्कथं स्यात् ?, कथंवा वनस्पतीनामनादित्वं, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात्, तथाहि-असङ्घयेयाः पुद्गलपरा वस्तेिषामवस्थानमानिं, तत एतावति कालेऽतिक्रान्ते नियमात् सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकालान्ते सुरादयः, उक्तंच॥१॥ "जइ पुग्गलपरियट्टा संखाईया वणस्सईकालो।
तो अचंतवणस्सईणमणाइयत्तमहेतूओ॥ ॥२॥ नयमरुदेवाजीवो जावजीवं वणस्सई आसी।
जमसंखेजा पग्गलपरियट्टा तत्थऽवत्थाणं ।। ॥३॥ कालेणेवइएणं जम्हा कुव्वंति कायपल्लढें ।
सब्वेवि वणस्सइणो ठिइकालंते जह सुराई॥" किं च-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं तदपीदानी प्रसक्तं, कथमिति चेद् ?, उच्यते, इह प्रतिसमयमसङ्ख्येया वनस्पतिभ्योजीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरि माणमसङ्खयेयाः पुद्गलपरावर्तास्ततो यावन्तोऽसङ्घयेयेषु पुद्गलपरावर्ततेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनां, ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपन,प्रतिनियतपरिमाणत्वादेव चगच्छता कालेन सिद्धिरपिसर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात्, आह च॥१॥ "कायट्टिइयकालेणं तेसिमसंखजयावहारेणं ।
निल्लेवणमावन्नं सिद्धीविय सव्वभव्वाणं॥ ॥२॥ पइसमयसंखेजा जेणुव्वटुंति तो तदब्भत्था ।
कायट्टिइए समया वणस्सईणं च परिमाणं ।।"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org