________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/४/४७५
न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात्, उच्यते, इह द्विविधा जीवाः--
सांव्यवहारिका असांव्यवहारिकाश्चेति, तत्र ये निगोदावस्थात् उदृत्त्य पृथिवीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तःपृथिवीकायिकादिव्यवहारमनुपतन्तीति व्यवहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यहारे पतितत्वात्, ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिका;, कथमेतदवसीयते ? द्विविधाः जीवाः सांव्यवहारिकाः असांव्यवहारिकाश्चेति, उच्यते, युक्तिवशात, इहप्रत्युत्पन्नवनस्पतीनामपिनिलेपनमागमेप्रतिषिद्धं, किं पुनः सकलवनस्पतीनां, तथा भव्यानामपि, य(त)च्च यद्यसांव्यवहारिकराशिनिपतिता अत्य न्तवनस्पतयोनस्युः ततः कथमुपपद्येत?,तस्मादवसीयतेअस्त्यसांव्यवहारिकराशिरपियद्गतानां वनस्पतीनामनादिता, किं चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा॥१॥ “अस्थि अनंता जीवा जेहिं न पत्तो तसाइपरिणामो।
तेवि अनंतानंता निगोयवासं अनुवसंति ॥" -तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः, उक्तंच
“पचुप्पत्रवणस्सईण निल्लेवणं न भव्वाणं ।
जुत्तं होइन तंजइ अचंतवणस्सई नत्थि ॥ ॥२॥ एवमणादिवणस्सईणमस्थित्तमत्यओ सिद्धं ।
भन्नइ य इमावि गाहा गुरूवएसागया समये ।। अत्थि अनंता जीवा०" इत्यादि,
तत्रेदं सूत्रं सांव्यवहारिकानधिकृत्यावसेयं, नचासांव्यवहारिकान्, अविषयत्वात् सूत्रस्य, नचैतत् स्वमनीषिकाविजृम्भितं, यत आहुः जिनभद्रगणिक्षमाश्रमणपूज्यापादाः॥१॥ "तह कायट्ठिइकालादओ विसेसे पडुच्च किर जीवे ।
नाणाइवणस्सइणोज संववहारबाहिरया॥" अत्रादिशब्दात्सर्वैरपिजीवैः श्रुतमनन्तशःस्पृष्टमित्यादियदस्यामेव प्रज्ञापनायां वक्ष्यति प्रागुक्तं च तत्परिग्रहः, ततो न कश्चिद्दोषः । त्रसकायसूत्रं सुप्रतीतं ॥
___ एतानेवत्रसकायिकादीन्पर्याप्तापर्याप्तविशेषणविशिष्टाचिन्तयन्नाह-‘सकाइयअपजत्तए णं भंते!' इत्यादि, सुगम, नवरंतेजःकायसूत्रे उत्कर्षतः सफ़ेयानि रात्रिन्दिवानीति, तेजःकायस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयपर्याप्तभवकालसंकलनायामपि सङ्ग्येयनानि रात्रिन्दिवान्येव लभ्यनते, न तु वर्षाणि वर्षसहसाणिवा।
सम्प्रति कायद्वारान्तःप्रवेशसंभवात् सूक्ष्मकायिकादीनिरूपयितुकाम आह०
मू. (४७६) सुहुमेणं भंते ! सुहुमेत्ति कालतो केवचिरं होति?, गो०! जह० अंतो० उ० असंखेजं कालं असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेा लोगा, सुहुमपुढविकाइते सुहुमआउका० सुहुमतेउका० सुहुमवाउका० सुहुमवणप्फकाइते० सुहमनिगोदेवि ज० अंतोमुहत्तं उक्को० असंखेजं कालं असंखिज्जाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततोअसंखेज्जा लोगा, सुहुमेणं भंते ! अपज्जत्तएत्तिपुच्छा, गो० ज० उ० अंतोमुहत्तं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org