________________
७८
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/४/-/४६५
लनिष्परन्नः-सुपक्वेक्षुरसः अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेव कालिका जम्बूफलकालिकावराचासौ प्रसन्नाचवरप्रसन्ना, एतेसर्वेऽपि मद्यविशेषाःपूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वरूपं वेदितव्याः,
वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोज्ञा मनोज्ञत्वादेव ईषत्-मनाक्ततः परम्परमास्वादतया झटित्येवाग्रतो गच्छति ओष्ठेऽवलम्बते-लगतीत्येवंशीला ईषदोष्ठावलम्मिबिनी तथा ईषत्-मनाक्पानव्यवच्छेदेसतिततऊर्ध्व कंटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथा ईषत्-मनाक्ताने अक्षिणी क्रियेते अनयेतिईषत्तामाक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथास्वभावत्वात् 'उक्कोसमयपत्ता;' इति उत्कर्षतीति उत्कर्षःस चासौ मदश्च उत्कर्षमदः तंप्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्येन गन्धेन घ्राणेन्द्रियनिर्वृतिकरणे रसेन परमसुखासिकाजकेन स्पर्शन मदपरिपाकाव्यभिचारिणा अत एवास्वादनीया विशेषतः स्वादनीया विस्वादनीयाप्रीणयतीतिप प्रीणनीया 'कृद् बहुल मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीयासर्वाणीन्द्रियाणि सर्वंच गात्रंप्रहलादयति इति सर्वेन्द्रियागात्रप्रहलादनीया, एतावत्युक्ते भगवान् गौतम आह-'भवेयारूवा!' भगवन् ! एतद्रूपा-एवंरूपरसोपेता पद्मलेश्या भवेत् !, भगवानाह-'नो इणढे समढे' इत्यादि प्राग्वत्॥
'सुक्कलेस्सा णं भंते !' इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-काशादिप्रभवा मत्स्यण्डीखण्डशर्करा पर्पटमोदकादयःसम्प्रदायादवसेयाः,शेषं सुगमं ॥
तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह
मू. (४६६) कइणं भंते! लेस्साओ दुब्मिगंधाओ पन्नताओ?, गोयमा! तओ लेस्साओ दुब्भिगंधाओ पं०?, तं-कण्हलेस्सा नील० काउलेस्सा। ____ कइणं भंते! लेस्साओ सुब्भिगंधाओ पन्नत्ताओ?, गोयमा! तओलेस्साओ सुब्मिगंधाओ पं०, तं०--तेउ० पम्ह० सुक्क०, एवं तओ अविसुद्धाओ तओ विसुद्धाओ तओ अप्पसत्याओ तओ पसत्थाओ तओ संकिलिट्ठाओतओ असंकिलिट्ठाओ तओ सीतलुक्खाओतओ निझुण्हाओ तओ दुग्गतिगामियाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ।
वृ. 'कइणभंते!' इत्यादि, सुगम, नवरंकृष्णनीलकापोतलेश्यादुरभिगन्धाः मृतगवादिकडेवरेभ्योऽप्यनन्तगुणदुरभिगन्धोपेतत्वात् तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिष्यमाणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेतत्वात्, उक्तं चोत्तराध्ययनेषु लेश्याध्ययने॥१॥ “जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण।
एत्तो उ अनंतगुणो पसतगुणो लेस्साणं अप्पसत्थाणं ।। ॥२॥ जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण ।
एत्तो उ अनंतगुणो पसत्थलेसाण तिण्हंपि॥" उक्तो गन्धपरिणामः, अधुना शुद्धाशुद्धात्वप्रतिपादनार्थमाह
"एवं तओ अविसुद्धाओ ततो विसुद्धाओ' इति, एवम्-उक्तेन प्रकारेण आधास्तिम्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवर्णगन्ध रसोपेतत्वात्, उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात्, ततश्चैवं वक्तव्या:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org