________________
पदं-१७, उद्देशकः-४, द्वारं.
(99
वृ. 'कण्हलेसा णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! स लोकप्रतीतो यथानामको निम्बो वृक्षविशेषः निम्बसारो-निम्बमध्यवत्यवयवविशेषः 'निम्बछल्ली' निम्बत्वक् निम्बफाणितं-निम्बक्काथः कुटजोवृक्षविशेषः तस्यैव फलं कुटजफलं तस्यैव त्वक् कुटजछल्ली तस्यैव क्वार्थ-कुटजफाणितंकुटुकतुम्बी प्रसिद्धा तस्या एव फलं कटुकटुम्बीफलं, खारतउसीति खारशब्दः कटुकवाची तथाऽऽगमे अनेकधा प्रसिद्धेः, ततः कटुका त्रपुषी क्षारत्रपुषी तस्या एव फलं क्षारत्रपुषीफलं देवदाली-रोहिणी तस्या एवपुष्पं देवदालीपुष्पं मृगवालुङ्की-लोकतोऽवसेया तस्या एव फलं मृगवालुङ्कीफलं घोषातकी प्रसिद्धा तस्या एव फलं घोषातकीफलं कृष्णकन्दोवज्रकन्दश्चानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतत्वी, एतावति उक्ते गौतमः पृच्छति-भगवन् भवेत् रसतः कृष्णलेश्या एतद्रूपा-निम्बादिरूपा? भगवानाह-गौतम! नायमर्थः समर्थः, यतः कृष्णलेश्या इतो-निम्बादिरसमधिकृत्यानिष्टतरिकैवेत्यादि प्राग्वत्।
'नीललेसाए' इत्यादि, भङ्गी-वनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठाचित्रमूलके लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिचचूर्णशृङ्गबेरशृङ्गबरचूर्णान्यपि प्रसिद्धानि 'काउलेस्साए' इत्यादि, आम्राणां फलानामेवंसर्वत्रापिभावनीयं अंबाडयाणवा' इति आम्राटकाःफलविशेषाः मातुलिङ्गबिल्वकपित्थपनसदाडिमानि प्रतीतानि पारापताः-फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि-बदराणि तिन्दुकानिच प्रतीतानि, एतेषां फलानामपक्वानां, तत्र सर्वथापिअपक्व फलमुच्यतेतत आह–अपरिपाकानांन विद्यते परिपाक:परिपूर्णः पाको येषां तान्यपरिपाकानि तेषामीषत्पकानामित्यर्थः, एतदेव वर्णादिभिः कथयतिवर्णेनातिविशिष्टेन गन्धेन घ्राणेन्द्रियनिर्वतिकरणे स्पर्शन विशिष्टपरिपाकाविनाभाविना अनुपपेतानां-असम्प्राप्तानां याशो रसः, अत्र गौतमः पृच्छति-एतद्रूपा-एवंरूपरसोपेता भवेत् कापोतलेश्या ?, भगवानाह-गौतम ! नायमर्थः समर्थः, किं तु इतः-अपरिपक्वाम्रफलादेरनिष्टतरिकैवेत्यादि प्राग्वत्।
तेउलेस्सा णं भंते!' इत्यादि, तेषामेव आम्रफलादीनां पक्वानां तत्रेषद्यत् किमपि पक्वं लोके पक्वं व्यवयितेततआह-पर्यायापन्नानां परिपूर्णपाकपर्यायप्राप्तानां, एतदेवंवर्णादिभिर्निरूपयति-वर्णेन प्रशस्तेन-एकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शेनोपेतानां यादग्रसः, एतावत्युक्ते गौतम आह-रसमधिकृत्य एतद्रूपा-पक्वाम्रादिफलरूपा तेजोलेश्या भवेत् ?, भगवानाह-नायमर्थः समर्थः, किंतु परिपक्वाम्रफलादेरिष्टतरिकैवेत्यादि प्राग्वत्,
‘पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च प्राग्वत्, नवरं 'से जहानामए' इति सा-लोकप्रसिद्धा यथा' येन प्रकारेणनाम यस्याः सा यथानामिका पुंस्त्वं सूत्रे प्राकृतलक्षणवशात्, प्राकृते हि लिङ्गमनियतं, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्गं व्यभिचार्यपी तिचन्द्रप्रभा इति वेति चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत् सीधुच वरसीधुवरा चासौ वारुणीच वरवारुणी पत्रैःधातकीपत्रैर्निष्पाद्य आसवः पत्रासवःएवं पुष्पासवः फलासवश्च परिभावनीयःचोओ-गन्धद्रव्यं तनिष्पाद्य आसवःचोयासवः, पत्रादिविशेषेण व्यतिरिक्तंआसव आसव इति गीयते, मधुमेरककापिशायनानिमद्यविशेषाः, मूलदलखर्जूरसारनिन आसवः खजूरसारःमृद्वीका-द्राक्षा तत्सारनिष्पनो मृद्वीकासारः सुपक्वेक्षुरसमूलद
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org