________________
७४
प्रज्ञापनाउपागसूत्रम्-२-१७/४/-/४६४
प्रायोऽतिकालिमसंभवात्, इतिशब्द उपमानभूतवस्तुनामपरिसमाप्तिधोतकः वाशब्द उपमानान्तरापेक्षया समुचये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यौ, अञ्जन-सौवीराजनं रत्नविशेषो वास्वञ्जनं-दीपमल्लिकामलःस्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरेकज्जलं प्रतीतंगवलं०माहिषं श्रृङ्गं तदपि च उपरितनत्वग्भागापसारणे द्रष्टव्यं, तत्रैवविशिष्टस्य कालिम्नः सम्भवात, जम्बूफलं प्रतीतं, अरिष्ठकं फलविशेषः परपुष्टः-कोकिलः भ्रमरः-चंचरिकःभ्रमरावलिः-भ्रमरपङ्कितः गजकलभः-करिपोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलं-शरदि मेघापान्तरालवाकाशखण्डं, तदपि हि अतीव कृष्णं प्रतिभाति इत्युक्तं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवा:-अशोककणवीरबन्धुजीवाः वृक्षविशेषाः,अशोकादयो हि जातिभेदेन पञ्चवर्णाभवन्ति ततःशेषवर्णव्युदासार्थं कृष्णग्रहणं,
एतावत्युक्ते गौतम आह-'भवे एयारूवा?' भगवन् ! भवेत् कृष्णलेश्या वर्णेन एतद्रूपा भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नः, एतद्रूपा कृष्णलेश्येति, किंतु?, सा कृष्णलेश्या इतो जीमूतादेःकृष्णेन वणे अनिष्टतरिका चैव इयमनिष्टा २ इयमनयोर्मध्येऽ. तिशयेनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टतरिका अनिप्सिततरिका एवेति भावः, इह किञ्चिदनिष्टमपि स्वरूपतः कान्तं भवति ततःकान्तताव्युदासार्थमाह-अकान्ततरिकैव, किञ्चित्केषाञ्चिदनिष्टमपि स्वलरूपतोऽकान्तमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताव्युदासार्थमाहअप्रियतरिकैव, अत एवामनोज्ञतरिकैव, वस्तुतः सम्यक्परिज्ञाने सतिमनागप्युपादेशतया तत्र मनसः प्रवृत्त्यसंभवात्, अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आप्नोतिआत्मवशातां नयतीति मनआपा न मनआपा अमनआपा ततो द्वयोः प्रक्रषे तरप एवंभूता वर्णेन प्रज्ञप्ता, ___'नीललेस्साणंभंते!' इत्यादि, अक्षरगमनिकाप्राग्वत, नवरंभृङ्गः-पक्षिविशेषः पक्ष्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्यपक्ष्म चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्रंशुक:-कीरः 'शुकपिच्छं' शुकस्य पतत्रं श्यामा-प्रियङ्गुः वनराजी-प्रतीता उच्चन्तको-दन्तरागः आह च मूलटीकाकारः-"उच्चंतगोदन्तरागो भन्नइ" पारापतग्रीवामयूरग्रीवाचसुप्रतीता, हलधरो-बलदेवः तस्यवसनं-वस्त्रं हलधरवसनं, तद्धि नीलं भवतीत्युपात्तं, अतसीकुसुमं वणवृक्षकुसुमंच प्रतीतं, अञ्जनकेसिका-वनस्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं-कुवलयं नीलशोकनीलकणवीरनीलबन्धुजीवा-अशोकादिवृक्षविशेषाः,
'काउलेस्सा णं भंते!' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारोधमासासारश्च लोकप्रतीतः 'तंबेइवातंबकरोडएइवातंबछेवाडियाइवा' इति सम्प्रदायादवसेयं वृत्ताकीकुसुमं प्रतीतंकोइलच्छदकुसुमए वेति-कोकिलच्छदः-तैलकंटकः, तथाच मूलटीकाकृत्-'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नई' इति, तस्य कुसुमं प्रतीत
'तेउलेस्सा णं भंते !' इत्यादि, शशकोरभवराहमनुष्यरुधिराणि शेषरुधिरभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातः इन्द्रगोपकः, स हि प्रवृद्धः सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रावृट्प्रथमसमयभावी कीटविशेषः, बालदिवाकारः-प्रथममुद्गच्छन् सूर्यः, गुआ-लोकप्रतीता तस्याअर्धरागो गुजार्धरागः, गुजाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org