________________
पदं- १७, उद्देशक:- ४, द्वारं -
हि अर्धमतिरक्तं भवति अर्धं चातिकृष्णमिति अर्धग्रहणं, जात्यः- प्रधानो हिङ्गुलको जात्यहिङ्गुलकः प्रवालः- शिलादलं तस्याङ्कुरः प्रवालाङ्कुरः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः– प्रतीतः, लोहिताक्षमणिः - लोहिताश्रमाना रत्नविशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यपमपदलोपी समासः, गजतालुचीनपिष्टाराशिपारिजातकुसुमजपाकुसुमकिंशुकपुष्पराशिरक्तोत्पलरक्ता शोकरक्तकणवीररक्तबन अधुजीवा लोकप्रतीताः 'भवे एयारूवा' इति पदयोजना प्राग्वत्,
भगवानाह - 'गौतम! णो इणट्ठे समट्टे' यतस्तेजोलेश्या इतः - शशकरुधिरादिभ्यो लोहितेन वर्णेनेष्टतरिकैव, तत्र किञ्चिदकान्तमपि केषांचिदिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह- कान्ततरिकैव, केषाञ्चिदिष्टतरमपि स्वरूपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरताप्रतिपत्त्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किञ्चिन्मध्यमं संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-मनआपतरिकैव वर्णेन प्रज्ञप्ता,
७५
'पम्हलेस्साणं भंते!' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं चम्पकः - सामान्यतः सुवर्णचम्पको - वृक्षविशेषः 'चम्पकछल्ली इवा' इति सुवर्णचमपकत्वक् 'चम्पकभेए इवा' इति सुवर्णचम्पकस्य भेदो द्विधाभावः भिन्नस्य हि वर्णप्रकर्षो भवति ततो भेदग्रहणं, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका - हरिद्रानिर्वर्त्तिता गुटिता हरिद्राभेदो- हरिद्राया द्वैधीभावः हरितालो - धातुविशेषः हरितालगुटिका - हरितालमयी गुटिता हरितालभेदो- हरितालच्छेदः चिकुरः- पीतद्रव्यविशेषःचिकुररागः - तन्निष्पादतो वस्त्रादौ रागः 'सुवन्नसिप्पी इवा' इति सुवर्णमयी शक्तिका, वरं प्रधानं यत्कनकं तस्य निकषः - कषपट्टके रेखारूपः वरकनकनिकषः वरपुरुषः - वासुदेवस्तस्य वसनं - वस्त्रं वरपुरुषवनं तद्धि पीतं भवतीत्युपात्तं अल्लकीकुसुमं लोकतोऽवसेयं चम्पककुसुमं सुवर्णचम्पकवृक्षपुष्पं 'कन्नियारकुसुमेइ वा' इति काञ्चानारककुसुमं कूष्मैण्डिकाकुसुमं पुष्पा (पुंस्क) लिकापुष्पं सुवर्णयूथिकाकुसुमं प्रतीतं सुहिरण्यिका- वनस्पतिविशेषस्तस्याः कुसुमं कोरण्टकमाल्यदामपीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीता,
'सुक्कलेसा णं भंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्करलविशेषः शङ्खचन्द्रौ प्रतीतौ कुन्दं - कुसुमंदकं - उदकं उदकरज; - उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि- प्रतीतं दधिघनो-दधिपिण्डः क्षरं प्रतीतं क्षीरपूरं क्वध्यमानं अतितापादूध्वं गच्छत् क्षीरं 'सुक्कच्छिवाडियाइ वा' इति छइवाडि:- वल्लादिफलिकासा च शुष्का सति विलसातीव शुक्ला भवतीत्युपात्ता 'पेहुणमिंजिया इवेति पेहुणं मयूरपिच्छं तन्मध्यवर्त्तिनी मिञ्जा पिहुणिञ्जा सा चातीव शुक्लेत्याभिहिता 'धंतधोयरुप्पपट्टे इ वा' इति ध्मातः - अग्निसम्पर्कतो निर्मलीकृतः धौतो-भीतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः पट्टः स ध्मातधौतरूप्यपट्टः, 'सारइयबलाहगे इ व' इति शारदिकः - शरत्कालभावी बलाहकः पुण्डरीकं - सिताम्बुजं तस्य दलं - पत्रं पुण्डरीकदलं शालिपिष्धरशिकुटजपुष्पराशिसिन्दुवारमाल्यादामश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः ॥
इह वर्णाः पञ्चभवन्ति, तद्यथा--कृष्णो नीलो लोहितो हारिद्रः शुक्लश्च, लेश्याश्च षट्, तत उपमानतो वर्णनिर्देशे कृतेऽपि संशयः का लेश्या कस्मिन्वर्णे भवति ?, ततः पृच्छति - 'एयाओ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International