________________
७२
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/४/-/४६३ इयमत्र भावना-यथा क्षीरलक्षणकारणगता रूपादयस्तकरूपादिभावंप्रतिपद्यन्ते यथा वा शुद्धवस्त्रकारणगता रूपदयो मञ्जिष्ठादिरागद्रव्यारूपादिभावप्रतिपद्यन्ते तथा कृष्णलेश्यायोग्यद्रव्यरूपकारणगता रूपादयोनीललेश्यायोग्यद्रव्यरूपादिभावंप्रतिपद्यन्ते, सेतेणतुण मित्याधुपसंहारवाक्यं सुगम, एवं नीललेश्या कापोतलेश्यां प्राप्येत्यादीन्यपिचत्वारिसूत्राणि भावनीयानि, तदेवं पूर्वस्याः पूर्वस्या लेश्याया उत्तरामुत्तरांलेश्यांप्रतीत्यतद्रूपतयापरिणमनमुक्तं, इदानीमेकैकस्याः लेश्याया यथायोगं क्रमेण शेषसमस्तलेश्यापरिणमनमाह-‘से नूनं भंते ! कण्हलेसा नीललेस्सं काउलेस्स मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तो द्रष्टव्यः, नीललेश्यांवा कापोतलेश्यां वा यावत् शुक्ललेश्यां वा, एकस्या लेश्यायाः परस्परविरुद्धतया युगपदनेकलश्यापरिणामसंभवात्, शेषाऽक्षरगमनिका प्रागवत्, अत्रैवार्थे दृष्टान्तमभिधित्सुरिदमाह
‘सकेणटेणं भंते!' इत्यादि सुगम, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैवल तान्यपिकृष्णलेश्यायोग्यानि द्रव्याणि तत्तत्रीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तद्रूपतया परिणमन्ते इति, एतावताऽशेन दृष्टान्तोनतु पुनर्यथा वैडूर्यमणिः स्वस्वरूपमजहानस्तत्तदुपाधिद्रव्यसम्बन्धस्तत्तदाकारमात्रभाजितया तत्तद्रूपतया परिणमते तथैतान्यपि कृष्णलेश्यायोग्यानिस्वस्वरूपमजहानान्येवद्रव्याणितत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तदाकारमात्रधारितया तत्तद्रूपतया परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याद्रव्याणां सामस्त्येन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा नैरयिकदेवसत्कलेश्याद्रव्याणाभिव तिर्यग्मनुष्याणामपि लेश्याद्रव्याणां सर्वथा स्वरूपापरित्यागेन चिरकालमवस्थानसंभवात्, यत उत्कर्षशतोऽप्येषामन्तर्मुहूर्तलक्षणंस्थितिपरिमाणमन्यत्रोक्तंतद्विरुधयते, पल्योपमत्रयमपि यावत् उत्कर्षतः स्थितिसंभवात्, तदेवंतदन्यलेश्यापञ्चकपरिणाममधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्तं,
__ एवं नीलादिलेश्याविषयाण्यपि प्रत्येकंतदन्यलेश्यापञ्चकपरिणाममधिकृत्यपञ्च सूत्राणि वस्तव्यानि, तदेवं तिर्यङ्गनुष्याणां भवसङ्क्रान्तौ शेषकालं च लेश्याद्रव्यपरिणाम उक्तः, देवनैरयिकसत्कानि तु लेश्याद्रव्याणि आभवक्षयमवस्थितानि यत्तदन्यलेश्याद्रव्यसंपर्कत आकारमात्रं तदत्रैव वक्ष्यते । तत उक्तः परिणामलक्षणाधिकारः।
अधुना वर्णाधिकारमभिधित्सुराह
मू. (४६४)कण्हलेसाणं भंते ! वन्त्रेणं केरिसिया पश्चत्ता?, गो० से जहा नामए जीमूते इवाअंजणे इ वा खंजणे इ वा काले इवा गवले इवागवलएइ वाजंबूफले इवा अद्दारिद्वपुष्फेइ वा परपुढेइ वा भमरेइ वा भमरावली इवागयकलभे इवा किण्हकेसरे इ वा आगासथिग्गले इवा किण्हासोए इ वा कण्हकणवीरए इ वा कणहबंधुजीवए इवा, भवे एतासवे?, गो०! णो इणढे समटे, कण्हलेस्साणंइत्तो अनिट्टयरिया चेव अकंतयरिया चेव अप्पियतरिया चेव अमणुनतरिया चेव अमणामतरिया चेव वनेणं पन्नत्ता,
नीललेस्सा णं भंते ! केरसिया वन्नेणं पन्नत्ता?, गोयमा ! से जहा नामए भिंगए इ वा भिंगपत्ते इ वा चासे इ वा चासपिच्छए इ वा सुए इ वा सुयपिच्छे इ वा सामा इ वा वणराइ इ वा उच्चंतए इवा पारेयवगीवाइवा मोरगीवा इ वा हलहरवसणे इ वा अयसिकुसुमे इ वा वणकुसुमे इ वा अंजणकसियि [इवा) कुसुमे इ वा नीलुप्पले इ वा नीलासोए इ वा नीलकणवीरए इ वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org