________________
पदं - १७, उद्देशक :- 9, द्वारं -
प्रकर्षपर्यन्तवर्त्तिनीं स्थितिमशुभां ते निर्वर्त्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरेषु विपरीतेति असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा ओधिका उक्तास्तथा वक्तव्याः, नवरंमनुष्याणां क्रियाभिर्विशेषः, तमेव विशेषं दर्शयति- 'तत्थ णं जे ते' इत्यादि, तत्र - तेषु सम्यग्धष्टयादिषु मध्ये ये ते सम्यग्दृष्टस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाण' मिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथासंयतानां द्वे क्रिये आरम्भिकी मायाप्रत्यया च, कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयतानां, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रः- आरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः- आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्यानक्रिया चेति ।
ज्योतिष्कवैमानिकास्तु आद्यासु तिसृषु लेश्यासु न पृच्छ्यन्ते, किमुक्तं भवति ? - तद्विषयं सूत्रं न वक्तव्यं, तासां तेष्वभावात्, यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावाद्, एतदेवाह - 'एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयव्वा' नीलेश्याविषयोऽपि सूत्रदण्डकएवमेव केवलं कृष्णलेश्यापदस्थाने नीललेश्यापदमुच्चरितव्यमिति भावः, 'कापोत लेस्सा' इत्यादि, कापोतलेश्या हि सूत्रतो नीललेश्येव नैरयिकेभ्य आरभ्य यावद्व्यन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नैरयिका वेदनासूत्रे यथौधिकास्तथा वक्तव्याः - 'नेरइया दुविहा पत्ता - सन्निभूया य असन्निभूया य' इत्येवं वक्तव्या इति भावः, असंज्ञीनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कापोतलेश्याभावात्,
५५
तेजोलेश्याविषयं सूत्रमाह- 'तेउलेस्सा णं भंते! असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत वासुरकुमारविषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तवयं, असुरकुमारा अपि यथा प्रागोघत उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कास्थाया वक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न वक्तव्याः, किंतु 'माइमिच्छदिविउववन्नगा अमाइसम्मदिङिडववन्नगा' इति वक्तव्या इति भावः, असंज्ञीना तेजोलेश्यावत्सूत्पादाभावात् पृथिव्यब्वनस्पतयः तिर्यक्पञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तता वक्तव्याः, नवरं मनुष्याः क्रियाभिर्ये संयतास्ते पमरत्ताश्चप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभवात्, 'सरागा वीयरागा य नत्थि' त्ति सरागसंजया बीअरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलश्याया असंभवेन वीतरागपदोपन्यासस्यतेजोलेश्यायाः सरागत्वाव्यभिचारात् सरागपदोपन्यासस्य चायोगात्,
'वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति, तेऽपि 'माइमिच्छदिङिउववन्नगा अमाइसम्मद्दिट्टिउववन्नगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया य असन्निभूया य' इति, तेष्वपि तेजोलेश्यावसत्सु मध्येऽसंज्ञीनामुत्पादाभावात् 'एवं पम्हलेसावि भाणियव्वा' इति, एवंपदं - १७, उद्देशक:- १ - समाप्तः
-: पदं - १७ - उद्देशक:- २ :
वृ. उक्तः षड्द्वाराद्यर्थाम्भियायी प्रथम उद्देशकः, अधुना द्वितीय उद्देशक उच्यते, तत्र
चेदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org