SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/१/-/४४७ चोच्छ्वसन्ति, महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वसत्वं अल्पशरीरत्वादेव, कादाचित्कत्वं चाहारोच्छ्वासयोः पर्याप्तेतरावस्थापेक्षमिति । वेदनासूत्रमाह 'पुढविकाइया णं भंते ! सब्वे समवेयणा' इत्यादि, असनीति-मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयंति असंज्ञीभूता असंज्ञीनां वा जायते तामित्यर्थः, एतदेव व्यनक्ति-'अनिययंति अनियताम्--अनिर्धारितां वेदयन्ते, वेदनामनुभवन्तोऽपिन पूर्बोपात्ताशुभकर्मण-परिणतिरियमित्यवगच्छन्ति, मिथ्याष्टित्वादमनस्कत्वाद्वा मत्तमूर्छितादिवदितिभावः, क्रियासूत्रे 'माइमिच्छद्दिष्टित्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह शिवशर्माचार्यः॥१॥ “उम्मग्गदेसओ मग्गनासवो गूढहियय माइल्लो । सढसीलोय ससल्लो तिरियाउं बंधई जीवो।" ततस्तेमायिन उच्यन्ते, अथवा माया इहसमस्तानन्तानुबन्धिकषायोपलक्षणं ततोमायिन इति किमुक्तंभवति?-अनन्तानुबन्धिकषायोदयवन्तः अत एव मिथ्यादृष्टयः, 'ताणं नियइयाओ' इति तेषां-पृथिवीकायिकानां नैयतिक्यो-नियताः पञ्चैव न तु त्रिप्रभृतय इत्यर्थः ‘से एएणटेण मित्यादि, निगमनं 'जाव चउरिदिया' इति इह महाशरीरत्वाल्पशरीरत्वे स्वस्वावगाह. नानुसारेणावसेये, आहारश्तच द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति, "पंचिंदियतिरिक्खजोणिया जहा नेरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्वसन्तीति यदुच्यते तत्सङ्ख्यातवर्षायुषोऽपेक्ष्य तथैव दर्शात्, नासङ्घयातवर्षायुषः, तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छ्वासयोर्यत् कादाचित्कत्वं तदपर्याप्तावस्थायां लोमाहारोच्छ्वासयोरभवनेन पर्याप्तावस्थायांतद्भवनेन चावसेयं, कर्मसूत्रे यत्पूर्वोत्पत्रानामल्पकर्मत्वं इतरेषां तुमहाकर्मत्वं तदायुष्कादितमवेवद्यकम्मपिक्षं, वर्णलेश्यासूत्रयोरपि यत्पूर्वोत्पन्नानांशुभवर्णाद्युक्तंतत्तारुणन्यात् पश्चादुत्पन्नानां चाशुद्धवर्णादि बाल्यादवसेयं, लोके तथादर्शनादिति, तथा 'संजयासंजया' इति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वात् इतरस्मादनिवृत्तत्वात् ।। मनुष्यविषयं सूत्रमाह मू. (rre) मणुस्सा गं भंते ! सव्वे समाहारा ?, गो० ! नो इणढे समढे, से केण?, गो० ! मणुस्सा दुविहा पं०, तं०-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेति जाव बहुतराए पोग्गले नीससंति आहन्छ आहारेति आहच्च नीससंति तत्य णं जे ते अप्पसरीरा तेणं अप्पतराए पोग्गले आहारेति जाव अप्पतराए पोग्गले नीससंति अभिक्खणं आहारेतिं जाव अभिक्खणं नीससंति, से तेणटेणं गो०! एवं वुच्चति-मणुस्सा सव्वे नो समाहारा, सेसंजहा नेरइयाणं, नवरं किरियाहिं मणूसातिविहा पन्नत्ता, तंजहा-सम्मद्दिट्टी मिच्छादिट्ठी सम्मामिच्छदिट्टी, तत्थ णंजेते सममदिट्ठीतेतिविहा पन्नत्ता, तंजहा-संयता असंयता संयतासंयता, तत्य णं जे ते संयता ते दु० पं०, तं-सरागसंयता वीयरागसंयता य, तत्थ णं जे ते वीयरागसंयता ते णं अकिरिया, तत्थ णं जे ते सरागसंयता ते दु० पं०, तं०-पमत्तसंयता य अपमत्तसंयता य, तत्थ गंजे ते अपमत्तसंजया तेसिंएगा मायावत्तिया किरिया कजति, तत्य णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy