SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ पदं-१७, उद्देशकः-१, द्वार ४५ समर्थः-नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति-‘से केणद्वेण मित्यादि, सेशब्दोऽथशब्दार्थः, अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त ! एवमुच्यते नैरयिकाः सर्वेसमाहारा इत्यादि?,भगवानाह-'गोयमे त्यादि, इहाल्पत्वं महत्त्वंचापेक्षिकं, तत्रजघन्यमल्पत्वं अङ्गुलसङ्खयेयभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षयातुजघन्यमल्पत्वं अङ्गुलसङ्ख्यातभागमात्रत्वंइतरद्धनुःसहसमानत्वं, एतावता च किं समशरीरा इत्यस्य प्रश्नसस्योत्तरमुक्तं । अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एव निर्वचनमुक्तं ?, उच्यते, शरीरविषमताभिधानेसति आहारोच्छ्वासयोर्वेषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्नस्य प्रथमं निर्वचनमुक्तं । इदानी आहारोच्छासयोर्निर्वचनमाह--'तत्थ णमित्यादि, 'तत्र' अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण'मिति वाक्यालङ्कारे येयतो महाशरीरास्तेतदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृहच्छरीरो बह्राशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत, बाहुल्यापेक्षं चेतमुदाहरणमुपन्यस्ते, अन्यथा कोऽपि वृहच्छरीरोऽप्यल्बमश्नाति कश्चिदल्पशरीरोऽपि भूरि भुङ्कते, तथाविधमनुष्यवत्, नारकाः पुनरुपपातादिसवेद्यानुभावादन्यत्रासद्वेद्योदयवर्त्तित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीव्राहाराभिलाषाश्च भवन्ति तथा नियमाद्बहुतरातुगतानाहारयन्ति तथा बहुतरान्पुद्गलान परिणामयन्ति, आहारपुद्गलानुसारित्वात् परिणामस्य, परिणामश्चापृष्टोऽप्याहारकार्यमित्युक्तः, तथा 'बहुतराए पुगले उस्ससंति' इति बहुतरान् पुद्गलान् उच्छ्वासतया गृह्णन्ति 'नीससंति' इति निःश्वासतया मुञ्चन्ति, महाशरीरत्वादेव, दृश्यन्ते हि बृहच्छरीरास्तजातीयेतरापेक्षया बहुच्छ्वासनिःश्वासा इति, दुःखिता अपि तथैव, दुःखिताश्च नारका इति । आहारस्यैवकालकृतं वैषम्यमाह-'अभिक्खण'मित्यादि, अभीक्ष्णं-पौनःपुन्येनाहारयन्ति, ये यतो महाशरीरास्ते तदपेक्षया शीघ्रशीघ्रतराहारग्रहणस्वभावा इत्यर्थः, अभीक्ष्णं उच्छ्वसन्ति अक्षीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दुःखिततरत्वादनवरतमुच्छासादि कुर्वन्तीति भावः, 'तत्य गंजेते' इत्यादि, 'जेते' इतिइहये इत्येतावतैवार्थसिद्धौ येतेइति (यद्) उच्यतेतद्भाषामात्रामेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यतोऽल्पशरीररास्ते तदाहरणीयपुद्दलापेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीररत्वादेवेति भावार्थः, 'आहच्च आहारयन्ति' इति कदाचिदाहारयन्ति कदाचित्रहारयन्ति,महाशरीराहारग्रहणान्तरालोपेक्षया बहुतरकालान्तरतयेत्यर्थः 'आह ऊससंति आहच्च नीससंति' एतेहि अल्पशरीरत्वेनैव महाशसीरापेक्षयाअल्पतरदुःखत्वादाहच-कदाचित् सान्तरमित्यर्थः, उच्छ्वासादि कुर्वन्तीति भावः, अथवा अपर्याप्तिकाले अल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छ्वासापर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति उच्छ्वसन्ति चेत्यत[आह]- 'आहच्च आहारयन्ति आहच्च ऊससंति'त्युक्तं । 'से एएणद्वेणं'मित्यादि निगमनवाकयं सुगमं । ___संप्रति समकर्मत्वाधिकारमाह-'नेरइयाण मित्यादि 'पुब्वोववन्ना य पच्छोववन्ना य' इतिपूर्व-प्रथमं उपपन्नाः पूर्वोत्पन्नाः त एव स्वार्थिकः क इति कप्रत्ययविधानात्पूर्वोत्पन्नकाः, एवं पश्चादुत्पन्नकाः, तत्र पूर्वोत्पन्नपश्चादुत्पन्नानांमध्ये ये पूर्वोत्पन्नास्तैर्नकायुर्नकगत्यसातवेदनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy