SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/9/-/४४१ तावनिष्यन्दस्यापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यते एवे'त्यादि, तदप्यश्लीलं, लेश्यानामनुभागबन्धहेतुतया स्थिति- बन्धहेतुतवायोगात्, ___ अन्यच्च-कर्मनिष्यन्दः किं कर्मकल्क उत कर्मसारः?, न तावत्कर्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारोभवतिअसारश्च कथमुत्कृष्टानुभागबन्धहेतुः?, अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तर्हि कस्य कर्मणः सार इति वाच्यं?, यथायोगमष्टानामपीति चेत् अष्टानामपि कर्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथंकर्मसापक्षमङ्गीकुर्महे?, तस्मात्, पूर्वोक्त एवपक्षः श्रेयानित्यङ्गीकर्तव्यः, तस्यहरिभद्रसूरिप्रभृतिभिरपितत्र (तत्र) प्रदेशेअङ्गीकृतत्वादिति ।अस्मिंश्च लेश्यापदेषउद्देशकाः, तत्रेयं प्रथमोद्देशकार्थसङ्ग्रहगाथा -पद-१७-उद्देशकः-१:मू. (४२) आहार समसरीरा उस्सासे कम्मवत्र लेलासु। समवेदन समकिरिया समाउया चेव बोद्धव्या। वृ.समशब्दः पूर्वार्धाप्रत्येकमपिसम्बध्यते, उत्तरार्द्ध प्रतिपदं साक्षात्सम्बन्धित एवास्ति, ततोऽयमर्थः-प्रथमोऽधिकारः सर्वेसमाहाराः सर्वेसमशरीराःसर्वे समोच्छ्वासा इति प्रश्नोपलक्षितः,द्वितीयः समकाण इति, तृतीयः समवर्णा इति, चतुर्थःसमेवेश्याका इति, पञ्चमः समवेदनाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति । अथ लेश्यापरिणामविशेषाधिकारेकथममीषामर्थानामुपन्यासोपपत्तिः?,उच्यते, अनन्तरप्रयोगपदे उक्तं-'कतिविहे णं भंते ! गइप्पवाए इति (पं०)?, गोयमा ! पंचविहे०, पयोगगई ततगई बंधनछेदनगई उववायगई विहायोगई, तत्थजा सा उववायगईसा तिविहा-खित्तोववायई भवोववयागई नोभवोववायगई, तत्थ भवोवायगई चउविहा–नेरइयमवोववायगई देवभवो० तिरिक्खजोणियभवो० ममुस्सभवोववायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नानां जीवानामुपपातसमयादारभ्य आहारद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । मू. (४३) नेरइया णं भंते! सवे समाहारा सब्बे समसरीरा सव्वे समुस्सासनिस्सासास गो० ! नो इणढे समढे, से केणट्टेणं भंते ! एवं वुच्चइ-नेरइया नो सब्वे समाहारा जाव नो सब्वे समुस्सासनिस्सासास?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णंजे ते महासरीरा तेणं बहुतराएपोग्गले आहारेति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गलेउस्संति बहुतराए पोग्गलसे नीससंति अभिक्खणं आहारति अभि० परिणामेति अभि० ऊससंति अभि० नीससंति, तत्थ णजे ते अप्पसरीरा तेणं अप्पतराए पो० आहा० अप्प० पो० परि० अप्प० पो० ऊससंति अप्प० पो० नीससंति आहच आहारेंति आहच्च परिणामेति आहच्च ऊससंति आहच्च नीससंति, से एएणतुणं गो०! एवं वुच्चइ-नेरइया नो सव्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सासनिस्सासा । __ वृ. 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह-'नेरइया णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-'गोयमा' इत्यादि, नायमर्थः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy