________________
पदं-१७, उद्देशकः-, द्वारं
[ पदं-१७ - "लेश्या" वृ. तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे प्रयोगपरिणाम उक्तः, सम्प्रतिपरिणामसाम्याल्लेश्यापरिणाम उच्यते-अथ लेश्येति कः शब्दार्थः ?, उच्यते, लिष्यते-श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, उक्तंच॥१॥ “कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः।
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ।।" अथ कानि कृष्णादीनिद्रव्याणि?, उच्यते, इह योगे सति लेश्या भवति, योगाभावेचन भवति, ततो योगेन सहान्यवव्यतिरिकदर्शनात् योगनिमित्ता लेश्येति निश्चीयते, सर्वत्रापि तनिमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनमूलत्वात्, योगनमित्ततायामिपविकल्पद्वयमवतरति-किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा?, तत्र न तावद्योगनिमित्तकर्म द्रव्यरूपा, विकल्पद्वयानतिक्रमात,
तथाहि-योगनिमित्तकर्मद्रव्यरूपा सती घातिकर्मेद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा नतावद्घातिकमद्रव्यरूपा, तेषामभावेऽपिसयोगिकेवलिनिलेश्यायाः सद्भावात्, नापिअधातिकर्मरूपा, तत्सद्भावेऽपिअयोगिकेवलिनि लेश्यायाअभावात्, ततः पारिशेष्यात्योगान्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कषायास्ताक्त्तेषा-मप्युदयोपबृंहकाणि भवन्ति, टंच योगान्तर्गतानां द्रव्याणां कषायोदयोपबृंहणसामर्थ्य, यथा पित्तद्रव्यस्य, तथाहि
पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-ब्राह्मयौषधिआनावरण स्य] क्षयोपशमस्य सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्शना- वरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयतेशास्त्रान्तरेस सम्यगुपपन्नः, यः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्त-र्गतकृष्णादिलेश्यापरिणामाः, तेचपरमार्थतः कषायस्वरूपाएव, तदन्तर्गतत्वात्, केवलं योगा- न्तर्गतद्रव्यसहकारिकारणमैदवैचित्र्यभ्यां ते कृष्णादिभेदैभिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद्भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकाख्ये ग्रन्थेऽभिहितं "ठिइअनुभागं कसायओ कुणइ" इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात्, तेन यदुच्यते कैश्चिद्
योगपरिणामत्वे लेश्यानां “जोगा पयडिपएसंठिइअनुभागंकसायओकुणइ" इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थपरिज्ञानात्, अपिच-नलेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अतएव च स्थितिपाकविशेशषस्तस्यभवति लेश्याविशेषेण इत्यत्रानुभागप्रतिपत्त्यर्थं पाकग्रहणं, एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानपि न सम्यक् तेषामस्ति, यदप्युक्तम्-'कर्मनिष्यन्दो लेश्या, निष्यन्दरुपत्वे हि यावत् कषायोदयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org