________________
पदं-१६, उद्देशकः-, द्वारं -
३७ लभ्यन्ते?, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, उच्यते उत्तरवैक्रियापेक्षया, तथाहियद्यपि द्वादशमौहूर्तिको गत्युपपातविरहकालस्तथापितदानीमपिउत्तरवैक्रियारम्भिणः संभवन्ति, उत्तरवैक्रियारम्भे च भवधारणीयं वैक्रियमिश्र, तद्वलेनोत्तरवैक्रियारम्भात्, भवधारणीयप्रवेशे चोत्तरवैक्रिय मिश्र, उत्तरवैक्रियबलेन भवधारणीयेप्रवेशात, ततएवमुत्तरवैक्रियापेक्षया भवधारणीयोत्तरवैक्रियमिश्रणसम्भवात् तदानीपमपि वैक्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्षतोऽसङ्ख्येयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गो यदापुनरेकस्तदा द्वितीयोयदा बहवस्तदा तृतीय इति, अत एव त्रयो भङ्गाः भवनपतिव्यन्तरज्योतिष्कवैमानिकेषुभावनीयाः,
पृथिव्यप्तेजोवायुवनस्पतिषुऔदारिकशरीरकायप्रयोगिणोऽपिऔदारिकमिश्रशरीरकायप्रयोगिणोऽपिकार्मणशरीरकायप्रयोगिणोऽपि सदाबहवएव लभ्यन्ते इतिपदत्रयबहुवचनात्मकः प्रत्येकमेकएव भङ्गः, वायुकायिकेष्वौदारिकद्विकवैक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनात्मक एको भङ्गः, तेषु वैक्रियशरीरिणां वैक्रियमिश्रशरीरिणां च सदैव बहुत्वेन लभ्यमानत्वात्, द्वीन्द्रियेषु यद्यप्यान्तर्मुहूर्त्तिक उपपातविरहकालस्तथाप्युपपातविरहकालोऽन्तर्मुहूर्त लघु
औदारिकमिश्रगतमन्तर्मुहूर्तमतिबृहप्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपितेषुसदैव लभ्यन्ते, कार्मणशरीरकायप्रयोगीतुकदाचिदेको पिन लभ्यते, आन्तर्मुहूर्तिकोपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्षतोऽसङ्कयेयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः, यदा पुनरेकः कार्मणशरीरी लभ्यते तदा द्वितीयः, यदा बहवस्तदा तृतीय इति, एवं त्रिचतुरिन्द्रियेष्वपि भावनीयं,
___ 'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इत्यादि, पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा वक्तव्याः, नवरंवैक्रियमिश्रवैक्रियशरीरकायप्रयोगिस्थाने औदारिकऔदारिकमिश्रशरीरकायप्रयोगिणो वक्तव्याः, किमुक्तं भवति ?-सत्यमनःप्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृषावाग्योनिनोऽपिततऔदारिकशरीरकायप्रयोगिणोऽपिऔदारिकमिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यं, एतानि दशपदानि बहुवचनेन सदाऽवस्तितानि, यद्यपिच तिर्यक्पञ्चेन्द्रियणामप्युपपातविरहकाल आन्तर्मुहूर्तिकस्तथाऽप्युपपातविरहकालान्तर्मुहूर्त लघु
औदारिकमिश्रान्तर्मुहूर्तमतिबृहदित्यत्राप्यौदारिकमिश्रशरीरकायप्रयोगिणः सदा लभ्यन्ते, यस्तु द्वादशमौहूर्तिक उपपातविरहकालः सगर्भव्युत्कान्तिकपञ्चेन्द्रियतिरश्चांन सामान्यपञ्चेन्द्रियतिरश्वामिति, कार्मणशरीरकायप्रयोगी तु तेष्वपि कदाचिदेकोऽपि न लभ्यते, आन्तर्मुहूर्तिकोपपातविरहकालभावात्, ततो यदा एकोपि कार्मणशरीर न लभ्यते तदा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः यदा बहवस्तदा तृतीयः,
मनुष्येषुमनश्चतुष्टयावाक्चतुष्टयौदारिकवैक्रियद्विकरूपाण्येकादशपदानि सदैव बहुवचनेन लभ्यन्ते, वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते इति चेत् ? उच्यते, विद्याधराद्यपेक्षया, तथाहि-विद्याधरा अन्येऽपि केचिन्मिथ्यादृष्टायदयो वैक्रियलब्धिसम्पन्नाः अन्यान्यभावेन सदैव विकुर्वणायां लभ्यन्ते, आह च मूलटीकाकारः- “मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org