SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ पद- १५, उद्देशक :- २, द्वारं २३ चउरिदियाणं वंजणोग्गहे तिविधे पं० अत्थोग्गहे चउव्विधे पं०, सेसाणं जहा नेरइयाणं जाव वेमाणियाणं सृ. 'कतिविहे णं भंते! इंदियअवाए पं०' इत्यादि, तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽपायः, शाङ्ख एवायं शार्ङ्ग एव वायं इत्यादिरुपोऽवधारणात्मको निर्णयोऽवाय इति भावः । ईहा इति, 'ईह चेष्टायां' ईहनमीहा, सदूभूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति ? - अवग्रहादुत्तरकालमवायात् पूर्वं सद्भूतार्थविशेषोपादानाभमुखोऽ सद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधर्म्मा दृश्यन्ते नकर्कशनिष्ठुरतादयः शार्ङ्गादिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाटकृत्“भूयाभूयविसेसादाणच्चा याभिमुहमीहा" । दुविहे ओग्गहे पं० तं० वंजणोग्गहे य अत्थोग्गहे य' इति, भवग्रहो द्विविधः - अर्थावग्रहो व्यञ्जनावग्रहश्च तत्र अवग्रहणमवग्रहः अर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आह च नन्द्यध्ययनचूर्णिकृत् - " सामन्नस्स रूवाइविसेसणरहियस्स अनिद्देस्सस्स - मवग्गहणं अवग्गह" इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियेण व्यञ्जितुं शक्यते नान्यथा ततः सम्बन्धो व्यञ्ज नं, आह च भाष्यकृत् 119 11 "वंजिज्जइ जेणत्थो घडोव्व दीवेण वंजणं तं च । उवगरनिंदियसद्दाइपरिणयद्दव्वसंबंधी ॥" व्यञ्जनेन सम्बन्धेनावग्रहणं सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरीपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्ते इति व्यञ्जनानि 'कृद्बहुल' मिति वचनात् कर्मण्यनट्, व्यञ्जनानांशब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः - अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, आह-प्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहस्ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि - अर्थावग्रहः स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्तवरमुपलभ्यते, किञ्चिद् दृष्टं न परिभावितं सम्यगिति व्यवहारदर्शनात्, अपिच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनाग्रहस्तु नेति प्रथममर्थावग्रहः उक्तः सम्प्रति व्यञ्जनावग्रहादूर्ध्वं - अर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः प्रश्नं कारयति शिष्यं - 'वंजणोग्गहे णं भंते ! कइविहे पं०' इत्यादि, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणत- द्रव्याणां च परस्परं सम्बन्ध इत्युक्तं प्राक्, ततश्चतुर्णामेव श्रोत्रादीनामिन्द्रियाणां व्यञ्जनवग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात् सा चाप्राप्यकारिता नन्द्यध्ययनटीकायां प्रदर्शितेति नेह प्रदर्श्यते, अर्थावग्रहः षड्विधः, तद्यथा - 'सोइंदिय अत्युग्गहे' इत्यादि, श्रोत्रेन्द्रियेणार्थावग्रहो व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं प्राणजिह्वा स्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाकल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणमर्थाव- ग्रहोऽवसेयः, 'नोइंदिय अत्थावग्गहो' इति नोइन्द्रियं मनः तच्च द्विधा - द्रव्यरूपं भावरूपं च तत्र - For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy