________________
पदं-१५, उद्देशकः-१, द्वारं
१७
अपि द्विधा-उपयुक्ताः अनुपयुक्ताश्च, तत्रानुपयुक्ता न जानन्ति न पश्यन्तसामान्यरूपतया विशेषरूपतयावापरिच्छेदस्यप्रणिधानमन्तरेणकर्तुमशक्यत्वात्, येतूपयुक्तास्तेजानन्ति पश्यन्ति च, कथमिति चेत् ?, उच्यते-इहावश्यके अवधिज्ञानविषयचिन्तायामिदमुक्तं
___ “संखेज कम्मदव्वे लोगे थोवूणगंपलियं' अस्यायमर्थः-कर्मद्रव्याणि-कर्मशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्खयेयान् भागान् पश्यति, अनुत्तरसुराश्च सम्पूर्णां लोकनाडी पश्यन्ति, “सम्भिन्नलोगनालिं पासंति अणुत्तरा देवा' इति वचनात्, ततस्ते उपयुक्ता जानन्ति पश्यन्ति चावधिज्ञानेन तानिर्जरापुद्गलानिति, आहारयन्तीति च सर्वत्रापि लोमाहारेणेति प्रतिपत्तव्यं ।
इन्द्रियाधिकारादयमपि प्रश्नः
मू. (४२७) अद्दायं पेहमाणे मणूसे अदाय पेहति अत्ताणं पेहइ पलिभागं पेहति?, गो० अदायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेणं असि मणि दुद्धं पाणं तेलं फाणियं वसं।
वृ. 'अद्दाय पेहमाणे' इत्यादि, 'अद्दाय'मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्शप्रेक्षतेआहोश्चिदात्मानं?,अत्रात्मशब्देन शरीरमभिगृह्यते, उत पलिभाग मितिप्रतिभागं प्रतिबिम्बं?,भगवानाह-आदर्शतावत्प्रेक्षतएव, तस्य स्फुटरूपस्ययथावस्थिततयातेनोपलम्भात्, आत्मानं आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात्,
स्वशरीरंहि स्वात्मनि व्यवस्थितंनादर्शेततः कथमात्मशरीरंचतत्र पश्येदिति?,प्रतिभागस्वशरीरस्य प्रतिबिम्बं पश्यति, अथ किमात्मकं प्रतिबिम्बं?, उच्यते,छायापुद्गलात्मकं, तथाहिसर्वमन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, रश्मय इति छायापुद्गलाः, व्यवयिन्तेच छायापुद्गलाः प्रत्यक्षतएव सिद्धाः, सर्वस्यापि स्थूलवस्तुनःछाया, अध्यक्षतः प्रतिप्राणि प्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति ततो न तत्र तद्दश्यते तस्मादवसीयते सन्ति छायापुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्परपरिणमनस्वभावास्तथाहि
ते छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसंबंधिद्रव्याकारमाबिभ्राणाः श्यामरूपतयापरिणमन्ते निशितुकृष्णाभाः, एतच्च प्रसरतिदिवसे सूर्यकरनिकरेनिशितुचन्द्रोद्योते प्रत्यक्षत एव सिद्धं,तएव छायापरमाणवः आदादिभास्वद्रव्यप्रतिगताःसन्तः स्वसंबंधिद्रव्याकारमादधानाः याग वर्ण:स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शनादिष्वध्यक्षतः सिद्धं, ततोऽधिकृतसूतरेऽपिये मनुष्यस्यछायापरमाणव आदर्शमुपसंक्रम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिबिम्बशब्दा वाच्या अत उक्तं-न शरीरंपश्यति किन्तु प्रतिभागमिति, नैवैतत् स्वमनीषिकाविजृम्भितं, यत उक्तमागमे॥१॥ “सामा उ दिया छाया अभासुरगता निसिं तु कालाभा।
सा चेव भासुरगया सदेहवण्णा मुणेयव्वा ।।
जे आदरिसस्सन्तो देहावयवा हवंति संकेता। | 11 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org