________________
१६
प्रज्ञापनाउपाङ्गसूत्रम् - २ - १५/१ /-/ ४२६
पश्यति चेति छद्मस्थग्रहणं, अत एवेह छद्मस्थो विशिष्टावधिज्ञानविकलः परिगृह्यते, तेषां निर्जरापुद्गलानां 'आणत्त' मिति अन्यत्वं द्वयोरनगारयोः सम्बन्धिनोयें निर्जरापुद्गलाः तेषां परस्परं भिन्नत्वमिति भावः 'नानात्वं' परनिरपेक्षमेकस्यैव वर्णादिकृतं वैचित्र्यं 'ओमत्वं' अवमता हीनत्वमितियावत् 'तुच्छत्वं' निःसारता 'गुरुलघुत्वे' प्रतीते, भगवानाह -
नायमर्थः समर्थः, नायमर्थो युक्त्युपपन्नः, छद्मस्थमनुष्यस्तेषां निर्जरापुद्दलानामन्यत्वादिकं जानाति पश्यति, अत्रैवार्थे प्रश्नमाह- 'सेकेणट्टेणं भंते' इत्यादि, सुगमं, भगवानाह - 'देवेविय 'मित्यादि, देवोऽप्यस्तेयकः कश्चित्कर्मपुद्गलविषयावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानां न किञ्चिदप्यन्यत्वादिकं जानाति पश्यति वा, किमुक्तं भवति ? - देवानां किल मनुष्येभ्यः पटुतराणि इन्द्रियाणि विद्यन्ते तत्र देवोऽपि तावन्न जानाति न पश्यति वा किमुत मनुष्य इति ?,
,
'से एएण' मित्याद्युपसंहारवाक्यं सुगमं, 'सुहुमा णं ते' इत्यादि, एतावन्मानेन सूक्ष्मास्ते पुद्गलाः निर्जरापुद्गलाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, गौतमस्य भगवत्कृतं सम्बोधनमेतत्, सर्वलोकमपि ते एवंरूपाः अत्यन्तसूक्ष्माः पुद्गलाः अवगाह्य तिष्ठन्ति पुद्गलाः न तु बादररूपाः, अन्यथा सांव्यवहारिकप्रत्यक्षविरोधप्रसक्तेः सर्वलोकस्पर्शिनस्ते पुद्लास्ततोऽयमपि प्रश्नः -- 'नेरइया णं भंते!' इत्यादि, नैरयिकास्तावत्तान् निर्जरापुद्दलानाहारयन्तीति सिद्धं, पुद्गलानां तत्तत्सामग्रीवशतो विचित्रपरिणमनस्वभावतया आहाररूपतयाऽपि तेषां परिणमनसम्भवात्, केवलमेतद् प्रष्टव्यं ते नैरयिका जानन्तीत्यादि, प्राकृतत्वात् क्रियाहेतुत्वेऽपि वर्त्तमाना, ततोऽयमर्थः - जानन्तः पश्यन्त आहारयन्ति उताजानन्तोऽपश्यन्त इति ?, भगवानाह -- अजानन्तोऽपश्यन्त इति, कस्मादिति चेत् ?, उच्यते, तेषामतिसूक्ष्मतया चक्षुरादिपथातीतत्वात् नैरयिकाणां च कार्मणशरीर- पुद्गलालम्बनावधिज्ञानविकलत्वात् । एवमसुरकुमारादिविशयाण्यपि सूत्राणि तावत् वाच्यानि यावत्तिर्यक्पञ्चेन्द्रियसूत्रं ।
मनुष्यसूत्रे 'सन्निभूयाय' इति संज्ञिनो भूताः संज्ञिभूताः संज्ञित्वं प्राप्ता इत्यर्थः, तद्व्यतिरिक्ताः असंज्ञिभूताः, संज्ञी चेह विशिष्टावधिज्ञानी परिगृह्यते यस्य ते कार्मणशरीरपुद्गला विषयभावं बिभ्रति, शेषं सुगमं । वैमानिकसूत्रे 'मायीमिच्छद्दिट्ठी' इत्या, माया - तृतीयः कषायः साऽन्येषामपि कषायाणामुपलक्षणं माया विद्यते येषां ते मायिन उत्कटरागद्वेषा इत्यर्थः ते च ते मिध्याध्ष्टयश्च मायिमिध्याध्ष्ट्रयस्तथारूपा उपपन्नका उपपन्ना मायिमिध्याध्ष्टयुपपन्नकास्तद्विपरीता अमायिसम्यग्ध्ष्टयुपपन्नकाः, इह मायिमिध्याध्र्युपपन्नकग्रहणेन नवमग्रैवेयकपर्यन्ताः परिगृह्यन्ते, यद्यप्यारातीयेष्वपि कल्पेषु ग्रैवेयकेषु च सम्यग्दृष्टयो देवाः सन्ति तथापि तेषामवधिर्न कार्मणशरीरपुद्गलविषय इति तेऽपि मायिमिध्याध्ष्टयुपपन्नका इव मायिमिथ्याध्ष्टयुपपन्नका इत्युपमानतो मायिमिध्याध्ष्टयुपपन्नकशब्देनोच्यन्ते, ये त्वमायिसम्यग्ध्ष्टयुपपन्नकास्तेऽनुत्तरसुराः ।
तेऽपि द्विविधा - तद्यथा - अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च, अनन्तरम् - अव्यवधानेनोपपन्नकाः अनन्तरोपपन्नकाः उपपत्तिप्रथमसमयवर्तिन इत्यर्थः, परम्परया उपपन्नकाः परम्परोपपन्नकाः, उत्पत्त्यनन्तरं द्वित्रादिसमयवर्त्तिन इत्यर्थः, तत्रानन्तरोपपन्नका न जानन्ति न पश्यन्ति तेषां एकसामयिकोपयोगासम्भवादपर्याप्तित्वाच्च, परम्परोपपन्नका अपि द्विधा - पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्ता न जानन्ति न पश्यन्त्यपर्याप्तत्वेन सम्यगुपरयोगासम्भवात्, पर्याप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org