________________
पदं- १५, उद्देशक:- १, द्वारं -
चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदप्पायह-
119 11
"नणु भणियमुस्सयंगुलपमाणतो जाव देहमाणाइ । देहपमाणं तं चिय नउ इंदियविसयपरिमाणं ।।”
अत्र 'देहपमाणं तं चिय' इति यत्तत्र उच्छ्रयाङ्गुलमेयत्वेनोक्तं तद् देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वादिति, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्रायङ्गुलेन स्यात्ततः को दोष आपद्येत ?, उच्यते, पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि--यद्भरतस्यात्माङ्गुलं तत्किलप्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति "उस्सेहंगुल मेगं हवइ पमाणंगुलं सहस्सगुण" मिति वचनात् ततो भरतसगरादिचक्रवर्त्तिनां या अयोध्यादयो नगर्यो ये तु स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्रायाङ्गुलप्रमिता अनेकानि योजनसहस्रणि स्युः,
॥२॥
तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत, “बारसहिं जोयणेहिं सोयं अभिगेण्हए सद्द" मिति वचनात् अथ समग्र नगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते तथैव च जनव्यवहारः, तत एवमागमप्रसिद्धः पञ्चधनुः शतादिमनुष्याणां विषयव्यवहारोच्छेदो मा प्रापदित्यात्माङ्गुलेनेद्रियाणां विषयपरिमाणमवसातव्यं नोच्छ्रायाङ्गुलेन, तथा चाह भाष्यकृत्
119 11
“जं तेणं पंच धनुसयनरादिविसयववहारवोच्छेओ । पावइ सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥"
अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गलेनेति उपसंहारवाक्यं स्वतः परिभावनीयं, यदप्युक्तं प्राक् 'देहाश्रितानीन्द्रियाणीति तेषां विषयपरिमाणमुच्छ्रायाङ्गुलेने' ति, तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्य आत्माङ्गुलेन मीयमानत्वाभ्युपगमात्, भावितं चैतव्प्रागपि इन्द्रियप्रतमाणचिन्तायां 'भयणिज्ज' मित्यादिभाष्यकारवचनावष्टम्भनेनेति, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गुलेनैवेति स्थितं, ननु भवत्वात्माङ्गुलेन विषयपरिमाणं तथाप्यधिकृतसूत्रोक्तं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् तथाहि - पुष्करवरद्वीपारर्द्ध मानुषोत्तरपर्वतसमीपवर्त्तिनो मनुष्याः कर्कसङ्क्रान्ती प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैव्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्थः
119 ||
ततः ॥१॥
१३
“इगवीसं खलु लक्खा चउतीसं चैव तह सहस्साइं । तह पंचसया भणिया सत्तत्तीसाए अतिरित्ता ॥ इय नयनविसयमाणं पुक्खरदीवद्धवासिमणुयाणं । पुव्वेण य अवरेण य पिहं पिहं होइ मणुयाणं |" इत्यादि कथमधिकृतसूत्रमात्माङ्गुलेनापि घटते ?, प्रमाणाङ्गुलेनापिव्यभिचारभावात् उक्तंच" लक्खेहिं एक वीसाए साइरेगेहिं पुक्खरर्द्धमि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ।। नयनिंदियरस तम्हा विसयपमाणं जहा सुए भणियं ।
For Private & Personal Use Only
॥२॥
Jain Education International
-
www.jainelibrary.org