________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - १५/१/-/४२५ जघन्यतोऽङ्गुलसङ्घयेय भागादव्यवहितं परिच्छिनत्ति, किमुक्तं भवति ? - जघन्यतोऽमुलसङ्घयेयभागमात्रे व्यवस्थितं पश्यति न तु ततोऽप्यर्वाक्तरमिति, प्रतिप्राणि प्रसिद्धश्चायमर्थः, तथा च नातिसन्निकृष्टमञ्जनरजोमलादिकं चक्षुः पश्यतीति, उक्तं च
"अवरमसंखेजंगलभागातो नयणवत्राणं ॥ संखेजंगलभागो नयणस्स" इति, उत्कर्ष - तस्तु श्रोत्रेन्द्रियं द्वादशभ्यो योजनेभ्यः आगतान् अच्छिन्नान् - अव्यवहितान् नान्यैः शब्दान्तरैर्वातादिकैर्वा प्रतिहतशक्तिकानित्यर्थः पुद्गलान्, अनेन पौद्गलिकः शब्दो नाम्बरगुण इति प्रतिपादितं, यथा च शब्दस्य पौद्गलिकता तथा तत्वार्थटीकायां प्रपञ्चितमिति न भूयः प्रपञ्चयते, स्पृष्टान् - स्पृष्टमात्रान् शब्दान् प्रविष्टान्- निर्वृतीन्द्रियमध्यप्रविष्टान् श्र णोतिन परतोऽप्यागतान्, कस्मादिति चेत् ?, उच्यते, परत आगतानां तेषां मन्दरपरिणामत्वभावात्,,
तथाहि - परत आगताः खलु ते शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपररिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रज्ञानं नोत्पादयितुमीश्वराः, श्रोत्रेन्द्रियस्यापि च तथाविधं अद्भुततरं बलं न विद्यते येन परतोऽपि आगतान् शब्दान् श्रृणुयादिति, चक्षुरिन्द्रियमुत्कर्षत; सातिरेकात् योजनशतसहस्रादारभ्याच्छिन्नान कटकुट्यादिभिरव्यवहितान् पुद्गलान् अस्पृष्टान् दूरस्थितान् अत एवाप्रविष्टान् 'रूवाई' ति रूपात्मकान् पश्यति, परतोऽव्यवहितस्यापि परिच्छेदे चक्षुषः शक्यत्वभावात्, तत्त्वङ्गुलमिह त्रिधा, तद्यथा - आत्मङ्गुलमुच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च तत्र “जेणं जया मणूसा तेसि जं होइ माणरूवं तु । तं भणियमिहायंगुलमणियमाणं पुण इमं तु ।” -- इत्येवंरूपमात्माङ्गुलं
119 11
"परमाणू तसरेणु रहरेणु अग्गयं च वालस्स । लिक्खा जूया य जवा, अट्ठगुणविवड्डिया कमसो।।” -इत्यादिरूपमुच्छ्रयाङ्गुलं
तृतीयं- 'उस्सेहंगुल मेगं हवइ पमाणंगुलं सहस्सगुणं । तं चेवल दुगुणियं खलु वीरस्सायंगुलं भणियं ।'
१२
119 11
॥१॥
इत्येवं प्रमाणाङ्गुलं, तत्रात्माङ्गुलेन मीयते तत्काले वापीकूपादिकं वस्तु उच्छ्रायङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि प्रमाणाङ्गुलेन पृथिवीविमानानि, उक्तं च
119 11
"आयंगुलेण वत्युं उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणंगुलेणं तु ।।"
तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेनाहोश्चित् उच्छ्रयाङ्गुलेन उत प्रमाणाङ्गुलेन ?, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्"अप्पत्तकारि नयणं मनो य नयनस्स विसयपरिमाणं ।
|| 9 ||
आयंगुलेण लक्खं अइरित्तं जो अणाणं तु ॥"
ननु देहप्रमाणमुच्छ्रयाङ्गलेन तु क्रियते देहाश्रितानि चेन्द्रियाणि ततस्तेषां विषयपरिमाणमपि उच्छ्रायङ्गुलेन कर्त्तुमुचितं, कथमुच्यते आत्माङ्गुलेनेति ?, नैष दोषः, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्माङ्गुलेनैव देहादन्यत्वाद्विषयपरिमाणस्य, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org