________________
११
पदं-१५, उद्देशकः-१, द्वार
वृ. 'पुट्ठाई भंते ! सद्दाई सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं, स्पृष्टन् भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्याल्लभ्यते शब्दान् श्रृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान्तनौ रेणुमिवालिङ्गिकतमात्रानित्यर्थः, 'पुढे रेणुंवतणुंमि' इति वचनात्, शब्यन्ते-प्रतिपाद्यन्ते अर्था एभिरितिशब्दाः तान् श्रृणोति-गृह्णतिउपलभते इतियावत्, किमुक्तं भवति?
स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रेन्द्रियमुपलभते न तुघ्राणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत्, उच्यते, इह शब्दद्रव्याणि घ्राणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूतत्वात्तदन्यद्रव्यवासकत्वाचात्मप्रदेशैः स्पृष्टमात्राण्यपि निर्वृतीन्द्रियमध्येप्रविश्यझटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियंचघ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान् सर्वथाऽऽत्मप्रदेशैः सम्बन्धमप्राप्तान्, श्रोत्रेन्द्रियस्यप्राप्तविषयपरिचछेदस्वभावत्वात्, यथा च श्रोत्रेन्द्रियस्य प्राप्तकारिता तथा नन्द्यध्ययनीकादौ चर्चितमिति ततोऽवधार्य,
'पुट्ठाई भंते! रूवाई' इत्यादि सुगमं, निर्वचनमाह-गौतम ! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि, चक्षुषोऽप्राप्ताकारित्वात्, तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादी सविस्तरेण प्रसाधिततमिति ततोऽवधारणीयं, गन्धादिविषयाणिसूत्राणि सुप्रसिद्धानि, नवरं स्पृष्टान्गन्धान् आजिघ्रति इत्यादि यद्यप्युक्तं तथापि बद्धस्पृष्टानिति द्रष्टव्यम्, यत उक्तमावश्यकनियुक्ती
“पुढे सुणेइ सई रूवंपुण पासई अपुढे तु।
गंध रसं च फासं च बद्धपुटुं वियागरे ।।" इति, तत्र स्पृष्टानिति पूर्ववत् बद्धानिति आत्मप्रदेशैरात्मीकृतान् ‘बद्धमप्पीकयं पएसेहि' इति वचनात्, विशेषणसमासश्च, बद्धाश्च तेस्पृष्टाश्चबद्धस्पृष्टास्तान, इह स्पृष्टाः स्पर्शमात्रेणापिभवन्ति यथाशब्दस्ततःस्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहतास्यादितिबद्धग्रहणं, बद्धरूपा ये स्पृष्टास्तान् परिच्छिनत्ति, नान्यानि, कस्मादेवमिति चेत् ?, उच्यते,
गन्धादिद्रव्याणां बादरत्वात् अल्पत्वादभावुकत्वाच्च घ्राणादीन्द्रियाणामपिच श्रोत्रेन्द्रियापेक्षयामन्दशक्तिकत्वादिति । सम्प्रतिप्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह-'पविट्ठाईभंते! सद्दाई' इत्यादिपाठसिद्धं, नवरंस्पर्शस्तनौ रेणुरिवापि भवतिप्रवेशोमुखेकवलस्येवेति शब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति । सम्प्रति विषयपरिमाणनिरूपणार्थमाह
मू. (२५) सोतिदियस्सणं भंते ! केवतिए विसए पन्नत्ते?, गो० ! जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसणंबारसहिं जोअणेहिं तो अच्छिण्णे पोग्गले पुढे पविट्ठातिं सदातिं सुणेति,
चकिखंदियस्सणं भंते! केवतिए विसएपं०?, गो०! जहन्नेणं अंगुलस्स संखेजतिभागो उक्कोसेणं सातिरेगाओ जोयणसतसहस्साओ अच्छिन्ने पोग्गले अपुढे अपविट्ठाति सवाई पासइ,
घाणिदियस्स पुच्छा, गो०! जहणणेणं अंगुलसंखेजतिभागो उक्कोसेणं नवहिंजोयणेहितो अच्छिन्ने पोग्गले पुढे पविट्ठातिं गंधाति अग्घाइ, एवं जिभिदियस्सवि फार्सिदियस्सवि।
वृ. 'सोइंदियस्स णं भंते ! केवइए विसए पं०' इत्यादि, इह श्रोत्रादीनि प्राप्तविषयपरिच्छेदकत्वात् अङ्गुलासङ्खयेयभागादप्यागतं शब्दादिद्रव्यं परिच्छिन्दन्ति, नयनं चाप्रप्तकारीति तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org