________________
पदं- १५, उद्देशक :- १, द्वारं -
परिज्ञानात्, त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शा यथा चक्षुषो रूपं गन्धो घ्राणस्य, न च खङ्गक्षुरिकाद्यभिधते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति, किन्तु केवलं दुःखवेदनं तच्च दुःखरूपवेदनमात्मा सकलेनापि शरीरेणानुभवति न केवलेन त्वगिन्द्रियेणं ज्वरादिवेदनवत् ततो नकश्चिद्दोषः, अथ शीतलपानकादिपाने अन्तः शीतस्पर्शवेदनाप्यनुभूयते ततः कथं सा घटामटाट्यते इति ?, उच्यते, इह त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्त्ति विद्यते, तथा पूर्वसूरिभिव्याख्यानात्, तथा चाह मूलटीकाकार:- 'सर्वप्रदेशपर्यन्तवर्त्तित्वात् त्वचोऽभ्यन्तरेऽपि शुषिरस्योपरित्वगिन्द्रियस्य भावादुपपद्यतेऽन्तः शीतस्पर्शवेदनानुभवः” ।
७
अधुना पृथकत्वविषयं सूत्रमाह - 'सोइंदिए णं भंते! केवइयं पोहत्तेणं पन्नत्ते" इत्यादि, इह पृथुत्वं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णाभिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं, स्पर्शनेन्द्रियस्य उच्छ्रायाङ्गुलेन, ननु देहाश्रितानीन्द्रियाणि देहश्वोच्छ्रयाङ्गुतेन प्रमीयते 'उस्सेहमाणतो मिणसुदेह मिति वचनात् तत इन्द्रियाण्यप्युच्छ्रयाङ्गुलेन मातुं युज्यन्ते नात्माङ्गुलेनेति, तदयुक्तम्, जिह्वादीनामुच्छ्रायाहुलेन पृथुत्वप्रमित्यभ्युपगमे त्रिगव्यतादीनां मनुष्यादीनां रसाभ्यवहारोच्छेदप्रसक्तेः तथाहित्रिगव्यूतानां मनुष्याणां षड्गव्यूतानां च हस्त्यादीनां स्वस्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च ततो यद्युच्छ्रयाङ्गुलेन तेषा क्षुरप्राकारतयोक्तस्याभ्यन्तरनिर्वृत्यात्मकस्य जिह्वेन्द्रियस्याङ्गुलपृथकत्वलक्षणो विस्तारः परिगृह्यते तदाऽल्पतया न तत्सर्वां जिह्वां व्याप्नुयात्, सर्वव्यापित्वाभावे च योऽसौ बाहल्येन सर्वात्मना जिह्वाया रसवेदनलक्षणः प्रतिप्राणि प्रसिद्धो व्यवहारः स व्यवच्छेदमाप्नुयाद्, एवं घ्राणादिविषयेऽपि यथायोगं गन्धादिव्यवहारोच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसेयं नोच्छ्रायाङ्गुलेनेति, आह च भाष्यकृत्"इंदियमाणेवि तयं भयणिज्जं जं तिगाउयाईणं । जिभिदियाइमाणं संववहारे विरुज्झेज्झा ।।"
119 11
अस्या अक्षरगमनिका -'तत्' उच्छ्रायाङ्गुलमिन्द्रियमानेऽपि आस्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपिशब्दार्थः, 'भजनीयं' विकल्पनीयं, क्वापि न गृह्यते इत्यर्थः किमुक्तं भवति स्पर्सनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वंपरिमाणचिन्तायां न ग्राह्यं तेषामात्माङ्गुलेन परिमाणकरणात् इति, कथमेतदवसेयं इति चेत् ? अत आह— 'यत् ' यस्मात् सर्वेषामपि इन्द्रियाणां उच्छ्रायाङ्गुलेन परिमाणकणे त्रिगव्यूतादीनामादिशब्दात् द्विगव्यूतादिपरिग्रहो जिह्वेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत, यथा च विरुध्यते तथाऽनन्तरमेव भावितमिति
सम्प्रति कतिप्रदेशावगाहनाद्वारं प्रतिपादयति-
मू. (४२२) सोइंदिए णं भंते! कतिपदेसोगाढे पं० ?, गो० ! असंखेजपएसोगाढे पं०, एवं जाव फासिंदिए ।
एएसि णं भंते! सोतिंदियचक्खिदियधाणिंदियजिब्भिदियफासिंदियाणं ओगाहणट्टयाए पएसट्टयाए ओगाहणपएसडयाए कतरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गो० ! सव्वत्थोवे चक्खिदिते ओगाहणट्टयाते सोतिंदिए ओगाहणट्टयाते संखेज्जगुणे घाणिंदिए ओगाहणट्टयाते संखेज्जगुणे जिब्भिदिए ओगाहणट्टयाए असंखेज्जगुणे फासिंदिए ओगाहणट्टयाए संखेज्जगुणेपदेसट्टयाते सव्वत्थोवे चक्खिदिए पदेसट्टयाए सोतिंदिए पएसट्टयाए संखेज्जगुणे घाणिंदिए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International