________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/9/-1४२१ चक्खिदिए घाणिदिए जिभिदिए फासिदिए, सोतिदिए णं भंते ! किंसंठिए पं०?, गो० ! कलंबुयापुप्फसंठाणसंठितेपं०, चक्खिदिएणंभंतो! किसंठितेपं०?, गो०! मसूरचंदसंठाणसंठिते पं०, घाणिदिए णं भंते ! पुच्छा, गो०! अइमुत्तगतदिसंठाणसंठिते, जिल्भिदिए गंपुच्छा, गो० खुरप्पसंठाणसंठिते पं०, पासिंदिएणं पुच्छा गो०! नानासंठाणसंठिते पं०१।।
सोइंदिएणंभंते १ केवइयं बाहल्लेणं पं०!, गो०! अंगुलस्स असंखेजइभागे बाहल्लेणं पं० २,स एवं जाव फासिदिए सोतिदिए णं भंते ! केवइतं पोहत्तेणं पन्नते!, गो० ! अंगुलस्स असंखेाइभागं पोहत्तेणं पं०, एवं चक्खिदिएवि घाणिदिएवि, जिभिदिए णं पुच्छा गो०! अंगुलपुहुत्तेणं पं०, फासिदिए णं पुच्छा गो०! पसरीरप्पमाणमेत्ते पोहत्तेणं पं०३।
सोतिदिएणं भंते ! कतिपदेसिते पं०? गो०! अनंतपदेसिते पं०, एवं जाव फासिदिए
वृ. 'कइणंभंते! इंदियापन्नत्ता' इत्यादि, कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, भदन्त! इन्द्रियाणिप्राग्निरुपितशब्दार्थानिप्रज्ञप्तानि!, भगवानाह-गौतम! पञ्चेन्द्रियाणि प्रज्ञाप्तानि, तान्येवनामत आह-'सोइंदिए' इत्यादि, एतानिचपञ्चापीन्द्रियाणिद्विधा, तद्यथा-द्रव्यतोभावतश्च, तत्र द्रव्यतो निवृत्युपकरणरूपाणि भावतो लब्ध्युपयोगात्मकानि, आह च तत्त्वार्थसूत्रकृत'निर्वृत्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगी भावेन्द्रियमिति,
तत्र निर्वृति म प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा बाह्या अभ्यन्तरा च, तत्र बाह्या पर्पटिकादिरूपा, सा च विचित्रा,, न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी, भ्रुवौ चोपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णेचाग्रभागेइत्यादि, जातिभोदान्नानाविधा, अभ्यन्तरातुनिवृतिः सर्वेषामपिजन्तूनांसमाना, तामेव चाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि, केवलं स्पर्शेन्द्रियस्य निर्वृतेर्बाह्याभ्यन्तरभेदो नप्रतिपत्तव्यः, पूर्वसूरिभिनिषेधाद्, अतएव च बाह्यसंस्थानविषयमेव तत्सूत्रं वक्ष्यति
‘फासिंदिएणंभंते! किंसंठाणसंठिएपन्नत्ते'इति, उपकरणंखङ्गस्थानीयाया बाह्यनिवृतर्या खगधारासमाना स्वच्छतरपुद्गलसमूहात्मिका, अभ्यन्तरा निर्वृतिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिवृतेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिवृतौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहिसत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृतावतिकठोरतरघनगर्जितादिना शकत्ययुपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालब्धिः उपयोगश्च, तत्र लब्धिः-श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणक्षयोपशमः, उपयोगः-स्वस्वविषये लब्ध्यनुसारेणात्मनो व्यापार प्रणिधानमाह ।
साम्प्रतमाभ्यन्तरां निर्वतिमधिकृत्य संस्थानादि विचिन्तयिषुःप्रथमतः संस्था चिन्तयति'सोइंदिएणं भंते! किंसंठिए पन्नत्ते' इत्यादि पाठसिद्धं, अधुना बाहल्यं चिन्तयति-'सोइंदिएणं भंते! केवइयंबाहल्लेणंपन्नत्ते' इत्यादि, इदमपिपाठसिद्धम्, उक्तश्चायमर्थोऽन्यत्रापि- "बाहलल्लतो य सव्वाई अंगुलअसंखभाग"मिति । अत्राह-यद्यङ्गुलस्यासङ्घयेयभागो बाहल्यं स्पर्शनेन्द्रियस्य ततःकथं खगक्षुरिकाद्यभिघाते अन्तःशरीरस्य वेदनानुभवः?, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org