SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २८ -- प्रज्ञापनाउपाङ्गसूत्र-१-91-1-1१८ तेणऽस्थि तदावरणक्खओवसमसम्भवो तेसिं ।।" ततो न भावेन्द्रियाणि लौकिकव्यवहारपथावतीर्णैकेन्द्रियादिव्यपदेशनिबन्धनं, किन्तु द्रव्येन्द्रियाणि, तथाहि-येषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रियाः येषां वे ते द्वीन्द्रियाः एवं यावद्येषां पञ्च ते पञ्चेन्द्रियाः, आह च॥१॥ “पंचिंदिओवि बउलो नरोव्व सव्वविसयोवलम्भाओ। तहविन भन्नइ पंचंदिओत्ति बझिंदियाभावा।।" मू. (१९) से किंतं एगेंदियसंसारसमावण्णजीवपन्नवणा?, एगेंदियसंसारसमावण्णजीवपन्नवणा पंचविहा पनत्ता, तंजहा--पुढविकाइया आउक्काइया तेउक्काइया वाउकाइया वणस्सइकाइया। वृ. अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-एकेन्द्रियसंसारसमापनजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता, एकेन्द्रियाणां पञ्चविधत्वात्, तदेव पञ्चविधत्वमाह'तंजहे' त्यादि, पृथिवी-काठिन्यादिलक्षणाप्रतीतासैवकायः-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थे इकप्रत्ययः, आपो-द्रवास्ताश्च प्रतीता एव ताःकायः-शरीरं येषां तेऽप्कायाः अप्काया एवाप्कायिकाः, तेजो-वह्निः तदेव कायः-शरीरं येषां ते तेजस्काया तेजस्काया एव तेजस्कायिकाः, वायुः-पवनः स एव कायो येषां ते वायुकायाः वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरूपः स एव कायःशरीरं येषां ते वनस्पतिकायाः वनस्पतिकाया एव वनस्पतिकायिकाः । इह सर्वभूताधारत्वात् पृथिव्याः पृथिवीकायिकानांप्रथममुपादानं, तदनन्तरं तत्प्रतिष्ठित- त्वादप्कायिकानां, अकायिकाश्च तेजः प्रतिपक्षभूतास्तत्तदनन्तरं तेजस्कायिकानामुपादानं, तेजश्च वायुसम्पर्कतःप्रवृद्धिमुपयाति तत एतदनन्तरंवायुकायिकग्रहणं, वायुश्च दूरस्थितो वृक्षशाखादि-कम्पनतो लक्ष्यते ततस्तदनन्तरं वनस्पतिकायिकोपादानं ।। सम्प्रति पृथिवीकायिकमनवबुध्यमानस्तद्विषयं शिष्यः प्रश्नं करोति मू. (२०) से किंतं पुढविकाइया?, पुढविकाइया दुविहापन्नत्ता, तंजहा-सुहुमपुढविकाइया य बादरपुढविकाइया य। वृ. अथ के ते पृथिवीकायिकाः ?, सूरिराह - पृथिवीकायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः स्वगतपर्याप्तापर्याप्तभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, अत्रापि चशब्दः शर्करावालुकादिभेदसूचकः, तत्र सूक्ष्मपृथिवीकायिकाः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत्सकललोकव्यापिनो, बादराः प्रतिनियतदेशचारिणः, तच्च प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते ।। तत्र सूक्ष्मपृथिवीकायिकानां स्वरूपं जिज्ञासुरिदमाह मू. (२१) से कितं सुहमपुढविकाइया?, २ दुविहा पन्नत्ता, तंजहा-पज्जत्तसुहमपुढविकाइया य अपञ्जत्तसुहुमपुढविकाइया य, से तं सुहुमपुढविकाइया। वृ.अथ केते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy