________________
पदं-१, उद्देशक:-, द्वारं
२७
मू. (१७) से किं तं परम्परसिद्ध असंसारसमावण्णजीवपन्नवणा ?, २ अनेगविहा पन्नत्ता, तंजा - अपढमसमयसिद्धा दुसमयसिद्धा तिसमयसिद्धा चउसमयसिद्धा जाव सज्जिसमयसिद्धा असज्जिसमय सिद्धा अनन्तसमयसिद्धा, सेत्तं परम्परसिद्धासंसारसमावण्णजीवपन्नवणा, सेत्तं असंसारसमावण्णजीवपन्नवणा ।
वृ. अथ का सा परम्परसिद्धासंसारसमापन जीवप्रज्ञापना ?, सूरिराह - परम्परसिद्धासंसारसमापन्नजीवप्रज्ञापनाऽनकेविधा प्रज्ञप्ता, परम्परसिद्धानामनेकविधत्वात्, तदेवानेकविधत्वमाह'तंजहे 'त्यादि, 'तद्यथे' त्यनेकविधत्वोपदर्शने, 'अप्रथमसमयसिद्धा' इति न प्रथमसमयसिद्धा अप्रथमसमयसिद्धाः - परम्परसिद्धविशेषणप्रथमसमयवर्तिनः, सिद्धत्वसमयाद्वितीयसमवर्त्तिन इत्यर्थः, त्र्यादिषुतु समयेषु द्वितीयसमयसिद्धादय उच्यन्ते यद्वा सामान्यतः प्रथममप्रथमसमयसिद्धा इत्युक्तं, तत एतद्विशेषतो व्याचष्टे
द्विसमयसिद्धास्त्रिसमयसिद्धाश्चतुः समयसिद्धा इत्यादि यावच्छब्दकरणात् पञ्चमसमयसिद्धादयः परिगृह्यन्ते । 'सेत्त' मित्यादि निगमनद्वयं सुगमं, तदेवमुक्ता असंसारसमापन्नजीवप्रज्ञापना || सम्प्रतिसंसारसमापन्नजीवप्रज्ञापनामभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
भू. (१८) से किं तं संसारसमावण्णजीवपन्नवणा?, संसारसमावण्णजीवपत्रवणा पंचविहा पन्ता, तंजहा- एगेदियसंसारसमावण्णजीवपन्नवणा वेइंदियसंसारसमावण्णजीवपन्नवणा तेइंदियसंसारसमावण्णजीवपन्वणा चउरिदियसंसारसमावण्णजीवपन्नवणा पंचिदियसंसारसमावण्णजीवपन्नवणा ।
वृ. अथ का सा संसारसमापन्नजीवप्रज्ञाना ?, सूरिराह - संसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता, तद्यथा - एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापनेत्यादि, तत्रैकं स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्युम्वुतेजोवायुवनस्पतयो वक्ष्यमाणस्वरूपास्ते च ते संसारसमापन्नजीवाश्च तेषां प्रज्ञापना एकेन्द्रियसंसारसमापत्रजीवप्रज्ञापना, एवं सर्वपदेष्वक्षरघटना कार्या, नवरं द्वे स्पर्शनरसनालक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्खशुक्तिकादयः, त्रीणि-स्पर्शनरसनाघ्राणलक्षणानीन्द्रियाणि येषां ते त्रीन्द्रियाः- यूकामत्कुणादयः, चत्वारि स्पर्शनरसनाम्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रियाः- दंशमशकादयः, पञ्च स्पर्शनरसनाघ्घ्राणचक्षुः श्रोत्रलक्षणानीन्द्रियाणि येषां ते पञ्चेन्द्रियाः- मत्स्यमकरमनुजादयः ।
अमीषां चैकादियानामिन्द्रियाणां स्पर्शनादीनामसंव्यवहारराशेरारभ्य प्रायोऽनेनैव क्रमेण लाभ इति सम्प्रत्ययार्थमित्थं क्रमेणैकेन्द्रियाद्युपन्यासः ।
इन्द्रियाणि च द्विधा, तद्यथा-द्रव्येन्द्रियाणि भावेन्द्रियाणिच, तत्र द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि, तानि च सविस्तरं नन्द्यध्यनटीकायां व्याख्यातानीति न भूयो व्याख्यायन्ते, भावेन्द्रियाणि क्षयोपशमोपयोगरूपाणि तानि चानियतानि, एकेन्द्रियाणामपि क्षयोपशमोपयोगरूपभावेन्द्रियपञ्चकसम्भवात्, केषाञ्चितत्तत्फलदर्शनात्, तथाहि - बकुलादयो मत्तकामिनीगीतध्वनिश्रवणसविलासकटाक्षनिरीक्षणमुखक्षिप्तसुरागण्डूषगन्धाघ्राणरसास्वादस्तनाद्यवयवस्पर्शनतः प्रमोदभावेनाकालक्षेपमुपलभ्यन्ते पुष्कफलानि प्रयच्छन्तः, उक्तं च"जं किर बउलाईणं दीसइ सेसिंदिओवलम्भोऽवि ।
For Private & Personal Use Only
॥१॥
Jain Education International
www.jainelibrary.org