________________
२६
प्रज्ञापनाउपाङ्गसूत्रं-१- १/-/-/१६
गच्छन्ति च तिर्यञ्चस्तदधोगत्यनताऽहेतुः ॥"
तथा च सति सिद्धं स्त्रीपुंसनामधोगतिवैषम्येऽपि निर्वाणं समं यदप्युक्तम् अपि च यासां वादलब्धावित्यादि' तदप्यश्लीलं, वादविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च"वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनः पर्यवविरहेऽपि न सिद्धिविरहोऽस्ति ॥”
119 11
,
अपि च-यदि वादादिलयभाववत्रिः श्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत्, यथा जम्बूयुगादारात् केवलज्ञानाभावो न च प्रतिपाद्यते क्वपि स्त्रीणां निर्माणाभाव इति, तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । तथा पुंल्लिङ्गे- शरीर- निर्वृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंल्लिङ्गसिद्धाः एवं नपुंसकलिङ्गसिद्धाः, तथा स्वलिङ्गेरजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथाऽन्यलिङ्गे--परिव्राजकादिसम्बांधेनि वल्कलकाषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धाः मरुदेवीप्रभृतयः, तथैकसिद्धा एकस्मिन् २ समये एक्का एव सन्तः सिद्धा एक सिद्धा:, 'अनेगसिद्धा' इति एकस्मिन् समयेऽनेके सिद्धा अनेकसिद्धाः अनेके चैकस्मिन्समये सिध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः यस्मादुक्तम्
,
119 #1
" बत्तीसा अडयाला सट्टी बाबत्तरी य बोद्धव्या । चुलसीई छनउइ उ दुरहियमट्टुत्तरसयं च ॥"
अस्याविनेयजनानुग्रहाय व्याख्या- अष्टौ समयान् यावन्निरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिध्यन्तः प्राप्यन्ते, किमुक्तं भवति ? – प्रथमे समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्सिध्यन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वोत्कर्षतो द्वात्रिंशत्, एवं यावदटमेऽपि समये जघन्यत को वोत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरं, तथा त्रयस्तिशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः सप्त समयान् यावत्प्राप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतः षट् समयान् यावदवाप्यन्ते परतोऽवश्यमन्तरं तथैकषट्यायो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षत; पञ्च समयान् यावदवाप्यन्ते ततः परमन्तरं, त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतश्चतुरः समयान् यावत्तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयः षन्नवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतस्त्रीन् समयान् यावत्परतो नियमादन्तरं, तथा सप्तनवत्यादयो द्व्युत्तर शतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ परतोऽवश्यमन्तरं, तथा त्र्यत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्वित्रादिसमयान्, तदेवमेकस्मिन् समये उत्कर्षतोऽष्टोत्तरशतसङ्ख्याः सिध्यन्तः प्राप्यन्ते इत्यनेकसिद्धा उत्कर्षतोऽष्टोत्तरशतप्रमाणा वेदितव्याः ।
आह-तीर्थसिद्धातीर्थसिद्धरूपभेदद्वय एव शेषभेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानम् ?, उच्यते, सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेषभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थं च एष शास्त्रारम्भप्रयास इति शेषभेदो पादानम्,
उपसंहारमाह- 'सेत्तमि' त्यादि, सैषा अनन्तरसिद्धासंसारसमापन्नजीवप्रज्ञापना ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International