________________
पदं - 9, उद्देशक:-, द्वारं
२९
तद्यथा - पर्याप्तसूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाश्च, तत्र पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानां यः शक्तिविशेषः आहारादिपुद्गलखलरसरूपताऽऽपादानहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतु:,
साच पर्याप्तिः षोढा - आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रियपर्याप्तिःप्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्तिश्च तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यथा रसीभूतमाहारं रसासृगमासंभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयतसा इन्द्रियपर्याप्तिः, तथा चायमर्थोऽन्यत्रापि भङ्ग्यन्तरेणोक्तः, पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति, यया पुनरुच्छ्वासप्रायोग्यान् पुद्गलानादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छ्वासपर्याप्तिः,
यया तु भषाप्रयायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनः प्रायोग्यान् पुद्गलानादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, एताश्च यथाक्रममेकेन्द्रियामां संज्ञिवर्जानां द्वीन्द्रियादीनां संज्ञिनां चतुः “पञ्चषट्संख्या भवन्ति, उक्तं च प्रज्ञापनामूलटीकाकृता
“एकेन्द्रियाणां चतस्र विकलेन्द्रियाणां पञ्च सञ्जिञनां षट्” इति, उत्पत्तिप्रथमसमय एव एता यथायथं सर्वा अपि युगपनिष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिस्ततः” शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यते, यत आहारपदे द्वितीयोद्देश के सूत्रमिदम्- 'आहारपजत्तिए अपजत्तए णं भंते! किं आहारए अनाहारए ?, गोयमा ! नो आहारए अनाहारए' इति, तत आहारपर्याप्तयाऽपर्याप्तो विग्रहगतावे-वोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमयएवाहारकत्वात्, तत एकसामयिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽप्याहारपर्याप्तयाऽपर्याप्तः स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत् -"सिय आहारए सिय अनाहारए' यथा शरीरादिपर्याप्तिषु 'सिय आहारए सिय अनाहारए" इति,
सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता “अभ्रादिभ्य' इति भत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपस्वगतभेदद्वयसूचकः, येपुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽ पर्याप्ताः अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः, तथाहि - द्विविधाः सूक्ष्मपथिवीकायिका अपर्याप्तास्तद्यथा - लब्ध्या कारणैश्च तत्र येऽ पर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, वै पुनः करणानि - शरीरेन्दिज्रयादीनि न तावन्निर्वर्त्तयन्ति अथाचावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारामाह - 'सेत्त' मित्यादि, त एते सूक्ष्मपृथिवीकायिकाः ॥ तदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org