________________
पदं - १४, उद्देशक:--, द्वारं
३०३
जीवा णं भंते! कतिहि ठाणेहिं अड्ड कम्मपगडीओ चिणिस्संति ?, गो० ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिस्संति, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया जीवाणं ते! कतिहि ठाणेहिं अट्ठ कम्मपगडिओ उवचिणिंसु ?, गो० ! चउहिं ठाणेहिं अट्ट कम्मपगडीओ उवचिर्णिसु, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया, जीवाणं भंते! पुच्छा, गो० ! चउहिं ठाणेहिं उवचिणंति जाव लोभेणं, एवं नेरइया जाव वेमाणिया, एवं उवचिणिस्संति ।
जीवाणं भंते! कतिहि ठाणेहिं अट्ठ कम्मपगडीओ बंधिसु ?, गो० ! चउहिं ठाणेहिं, अट्ठ कम्मपगडिओ बंधिसु तं०- कोहेणं माणेणं जाव लोभेणं, एवं नेरइया जाव वेमाणिया, बंधिसु बंधति बंधिस्संति, उदीरें उदीरंति उदीरिस्संति, वेदिंसु वेदेति वेदइस्संति, निज्जरिंसु निज्जरेति निज्जरित्संति, एवं एते जीवाइया वेमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया, निज्जरिंसु निज्जरेति निजरिस्संति० ।
दृ. सम्प्रति फलभेदेन कालत्रयवर्तिनां भेदमभिधातुकाम आह- 'जीवा णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु' इत्यादि, जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः, चयनं नाम कषायपरिणतस्य कर्मपुगद्लोपादानात्रं, भगवानाह - गौतम ! चतुर्भिः स्थानैस्तद्यथाक्रोधेन मानेन मायया लोन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यौ, एवमुपचयबन्धोदीरणावेदननिर्जराविषया; प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम स्वस्वायबाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थं निषेकः, स चैवं
प्रथमस्थिती सर्वप्रभूतं, द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनं, एवं विशेषहीनं २ तावद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्चररमा स्थितिरेतच्च सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽवधार्य,
बन्धनं नाम - ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेणं स्वस्वाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेषान्निकाचनं,
उदीरणं–उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाद्यवतीति 'चउहिं ठाणेहिं उदीरेंसु उदीरन्ति उदीरिस्ती' त्युक्तम्, अन्यथा कषायव्यतिरेकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरका वर्त्तन्ते
वेदना-स्वस्वाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा–कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनं, आत्मप्रदेशैः संश्लिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूय २ शातनमिति भावः, उक्तं च- "पुव्वकयकम्मसाडण निज्जरा" इति, इयं च देशनिर्जरा द्रष्टव्या, कषायजित्वात्, न सर्वनिर्जरा, सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति, न शेषस्य, अत एव चतुर्विंशतिदण्डकसूत्रमपि अविरुद्धं, देशनिर्जरायाः सर्वकालं सर्वेषामपि भावात्, सम्प्रति यत् यत् पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय संग्रहणिगाथया निर्दिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org