________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१४/-/-/४१४
119 11
योदयादुपजायमानः क्रोधः, तथा च स पश्चात् ब्रूते - अहो मे निष्कारणः कोपो नैव (कोऽपि ) विरूपं भाषते न च किञ्चिद्विनाशयति, अत एवोक्तं पूर्वमहर्षिभिः“सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥” इति, एवं मानमायालोमा अपि आत्मपरोभयप्रतिष्ठिता अप्रतिष्ठिताश्च भावनीयाः । तदेवमधिकरणभेदेन भेद उक्तः, सम्प्रति कारणभेदतो भेदमाह - 'कति (हिं) णं भंते ! ठाणेहिं कोहुप्पत्ती हवइ' इत्यादि, तिष्ठन्त्येभिरिति स्थानानि - कारणानि कतिभिः - कियत्सङ्ख्याकैः स्थानैः कारणैः क्रोधोत्पत्तिर्भवति ?, भगवानाह - चतुर्भिः स्थानैः, तान्येव स्थानान्याह - 'खेत्तं पडुच्च' इत्यादि, तत्र नैरयिकाणां नैरयिकक्षेत्रं प्रतीत्य तिरश्चां तिर्यक्कषेत्रं प्रतीत्य मनुष्याणां मनुष्यक्षेत्रं देवानां देवक्षेत्रं 'वत्युं पडुच्चे' ति वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य- दुःसंस्थितं विरूपं वा 'उपधिं प्रतीत्ये 'ति यत् यस्योपकरणं तस्य तत् चौरकादिनाऽपह्रियमाणमन्यथा वा प्रतीत्य, एवं नैरयिकादिदण्डकसूत्रमपि,
मू. (४१५) कतिविधे णं भंते! कोथे पन्नत्ते ?, गो० ! चउन्विहे कोहे पं० तं० अनंताणुबंधि कोहे अपचक्खाणे को पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं | एवं माणेणं मायाए लोभेणं, एएवि चत्तारि दंडगा
बृ. सम्प्रति सम्यग्दर्शनादिगुणविधातित्वेन भेदमाह– सम्यकत्वगुणविधातकृदनन्तानुबन्धी देशविरतिगुणविधाती अप्रत्याख्यानः सर्वविरतिगुणविधाती प्रत्याख्यानावरणः यथाख्यातचारित्रवघातकः संज्वलनः, एतांश्चतुरोऽपि नैरयिकादिदण्डकक्रमेणं चिन्तयति, एवं मानमायालोभा अपि प्रत्येकं चतुर्विधाः सामान्यतो दण्डकक्रमेण च भावनीयाः ।
सम्प्रत्येतेषामेव क्रोधादीनां निर्वृतिभेदतोऽवस्थाभेदतश्च भेदमाह
मू. (४१६) कतिविधे णं भंते ! कोधे पं० ?, गो० ! चउव्विहे कोहे पं०, तंजहाआभोगनिव्यत्तिए अनाभोगनिव्वत्तिए उवसंते अनुवसंते, एवं नेरइयाणं जाव वैमाणियाणं । एवं माणेणवि, मायाएवि, लोभेणवि, चत्तारि दंडगा ।
वृ. 'कइविणं भंते!' इत्यादि, यदा परस्यापराधं सम्यगवबुध्या कोपकारणंच व्यवहारतः पुष्टवलम्ब्य नान्यथाऽस्य शिक्षोपजायते इत्याभोग्य कोपं विधत्ते तदा स कोप आभोगनिर्वर्तितः, यदा त्वेवमेव तथाविधमुगूर्त्तवशाद्गुणदोषविचारणाशून्यः परवशीभूयं कोपं कुरुते तदा स कोपोऽनाभोगनिवर्तितः २ उपशान्तः - अनुदयावस्थः ३ अनुपशान्तः - उदयावस्थः ४, एवमेतद्विषयं कसूत्रमपि भावनीयं एवं मानमायालोभाः प्रत्येकं चतुष्प्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः ।
३०२
मू. (४१७) जीवा णं भंते! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिसु ?, गो० ! चउहिं ठाणेहिं अट्ठ कम्मपगडिओ चिणिसु तं०- कोहेणं माणेणं मायाए लोभेणं, एवं नेरइयाणं जाव वेमाणियाणं, जीवा णं भंते! कितिहि ठाणेहिं अट्ठ कम्मपगडीओ चिणंति ?, गो० ! चउहिं ठाणेहि, तं०- कोहेणं माणेणं मायाए लोभेणं, एवं नेरइया जाव वेमाणिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org