________________
३०१
पदं-१४, उद्देशकः-, द्वारंएव विशेषतः कश्चित् कवचित् प्रतपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् 'सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते' इति वचनात् प्रधानबन्धहेतुत्वाच्चादावेव विशेषतः कषायपरिणाम- प्रतिपादनार्थमिदरमारभ्यते, तत्र चेदमादिसूत्रम्
मू.(४१३) कतिणं भंते! कसाया पन्नत्ता, गो०! चत्तारि कसाया पं०, तं०-कोहकसाए मानकसाए मायाकसाए लोभकसाए, नेरइयाणंभंते! कतिकसाया पं०?,गो०! चत्तारि कसाया पं०?, तं०-कोहकसाए जाव लोभकसाए, एवं जाव वेमाणियाणं।
वृ. 'कइणंभंते! कसाया' इत्यादि, कति-कियत्सङ्ख्याकाः [कषायाः] णमिति पूर्ववत्, भदन्त!-परमकल्याणयोगिन् कषायाः प्रज्ञप्ताः,? 'कृष विलेखने कृषन्ति-विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेतिकषायाः,औणादिक आयप्रत्ययो निषातनाच्च ऋकारस्य अकारः, यदिवा कलुषयन्ति-शुद्धस्वभावंसन्तंकर्ममलिनं कुर्वन्तिजीवमितिकषायाः पूर्ववत् आयप्रत्ययः निपातनाच्च कलुषशब्दस्य णिजन्तस्य कषायादेशः उक्तंच॥१॥ "सुहदुक्खबहुस्सइयं कम्मक्खेत्तं कसंति ते जम्हा।
कलुसंतिजं च जीवं तेणं कसायत्ति वुच्चंति ।।" --निर्वचनसूत्रं क्षुण्णार्थं, नैरयिकादिदण्डकसूत्रमपि सुगम,मू. (४१४) कतिपतिट्टिए णं भंते ! कोहे पं०?, गो० ! चउपतिट्ठिए कोहे पं०, तं०-आयपतिहिए परपतिट्ठिए तदुभयपतिहिए अप्पइट्टितै, एवं नेरइयाणं जाव वेमाणियाणं दंडतो, एवं माणेणं दंडतो मायाए दंडओ लोभेणं दंडओ।।
कति(हि) गंभंते! ठाणेहिं कोहुप्पत्ती भवति?, गो०! चउहि ठाणेहिंकोहुप्पत्ती भवति, तं०-खेत्तं पडुच्च वत्यु पडुच्च सरीरं पडुच उवहिं पडुच्च, एवं नेरइयाणं जाव वेमाणियाणं एवं माणेणवि मायाएविलोभेणवि, एवं एतेवि चत्तारि दंडगा।
वृ. 'कइपइट्ठिए णं भंते !' इत्यादि, कतिषु-कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः?, भगवानाह-चतुष्प्रतिष्ठितः, तद्यथा-आत्मप्रतिषअटित इत्यादि, आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः, किमुक्तंभवति?-स्वयमाचरितस्य ऐहिकंप्रत्ययायमवबुध्यकश्चिदात्मन एवोपरि क्रुध्यति तदा आत्मप्रतिष्ठितः क्रोध इति, यदा पर उदीरयति आक्रोशादिना कोपं तदा किल तद्विषयःक्रोध उपजायते इति स परप्रतिष्ठित इति, नैगमनयदर्शनमेतत्, नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवे सम्यग्दर्शनमजीवे सम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधिकरणचिन्तायामावश्यके,
__ तदुभयप्रतिष्ठितः आत्मपररूपोभयप्रतिष्ठितः, यदा कश्चित् तथाविधापराधवशादात्मपरविषयं क्रोधमाधत्ते इति, अप्रतिष्ठितो नाम यदैष स्वयं दुश्चरणमाक्रोशादिकंच कारणं विना निरालम्बन एव केवलक्रोधवेदनीयादुपजायते, स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणाभावतःस्वात्मविषयत्वाभावात्, नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्मभावनाया अभावतः क्रोधालम्बनत्वायोगात्,
(तथा नोभयप्रतिष्ठितोऽपि) दृश्यते च कस्यापि कदाचिदेवमेव केवलक्रोधवेदनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org