SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पदं-१२, उद्देशकः-, द्वारं २९५ इति विशेषतरंपरिमाणप्रतिपादयति-'तासिणमित्यादि, तासांश्रेणीनां विष्कम्भसूचिरकुलद्वितीयवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, एतदुक्तं भवति-- अङ्गुलमात्रौत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यत् द्वितीयं वर्गमूलं, असत्कल्पनया चतुष्कलश्रणं, तत्तृ तीयेन वर्गमूलेन, असत्कल्पनयाद्विकरूपेण गुण्यते, गुणितेच सति यावान्प्रदेशराशिर्भवति, असत्कल्पनयाअष्टी, तावप्रदेशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्राह्याः, तत्रापिताएव अष्टौ श्रेणय इतिप्रकारद्वयेऽप्यभेदः, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत् ।। पदं-१२-समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता प्रजापनाउपाङ्गसूत्रे द्वादशपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। पदं-१३- “परिणाम") वृ. तदेवं व्याख्यातं द्वादशमं पदं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदारिकादिशरीरविभाग उक्तः, तानिपुनः शरीराणितथा परिणामे भवन्ति नान्यथा ततः परिणामस्वरूपप्रतिपादनार्थमिदमारभ्यते, तत्र चेदमादिसूत्र मू. (४०५) कतिविधे णं भंते ! परिणामे पन्नते?, गो० ! दुविहे परिणामे पं०, तं० जीवपरिणामे य अजीवपरिणामे य।। वृ. 'कइविहेणंभंते! परिणामेपं०?' इत्यादि, कतिविधः कतिप्रकारो, णमिति वाक्यालङ्कारे, भदन्त! परिणामः प्रज्ञप्तः, परिणमनं परिणामः, 'कर्तरी ति भावे धअत्ययः, परिणमनं चनयभेदेन विचित्रं, नयाश्च नैगमादयोऽनेके, तेषां च समस्तानामपि सङ्गाहको प्रवचने द्वौ नयौ, तद्यथा-द्रव्यास्तिकनयः पर्यायास्तिकनयश्च, तथा चाहुः श्रीमल्लवादिनः॥१॥ "तित्थयरवयणसंगहविसेसपस्थारमूलवागरणा। दवडिओ य पजवनओय सेसा विगप्पा सिं।" तत्र द्रव्यास्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदेवोत्तरपर्यायरूपं धर्मान्तरमधिगच्छति, नचपूर्वपर्यायस्यापिसर्वथाऽवस्थाननाप्येकानतेन विनाशः, तथा चोक्तम्॥१॥ "परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः।।" पर्यायास्तिकनयमतेन पुनः परिणमनंपूर्वसत्पर्यायापेक्षया विनाश उत्तरेणचासता पर्यायेण प्रादुर्भावः, तथा चामुमेव नयमधिकृत्यान्यत्रोक्तं॥१॥ “सत्पर्यायेण विनाशः प्रादुर्भावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खल पर्ययनस्य ।।" भगवानाह-गौतम! द्विविधः परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy