________________
पदं-१२, उद्देशकः--, द्वारं
२९३ तत्रप्रथममष्टौ द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्धमेक इति, एवंतृतीयवर्गोऽष्टी छेदनकानिप्रयच्छति, चतुर्थः षोडश पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षन्नवतिः, कथमेतदवसेयमिति चेत् ?,
उच्यते, इह यो यो वर्गो येन येन वर्गेणं गुण्यते तत्र तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा प्रथमवर्गेण गुणिते द्वितीयवर्गेषट्, तथाहि-द्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करपूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् द्वितीयं षोडशतृतीयमष्टयै चतुर्थं चत्वारः पञ्चमं द्वौ षष्ठं एक इति, एवमन्यत्रापि भावनीयं, तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि षष्ठे चतुःषष्टिः ततः पञ्चमवर्गेण षष्ठेवर्गेगुणितेषन्नवतिछेदनकानिप्राप्यन्ते, अथवाएकरूपंस्थापयित्वा ततः षन्नवतिवारान् द्विगुणद्विगुणीक्रियते, कृतंचसत्यदितावप्रमाणो राशिर्भवतिततोऽवसातव्यं एष षन्नवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदमभिहितम्, ।
___ इदानीमुत्कृष्टपदामाह-'उक्कोसफए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्घयेयाः, तत्रापि कालतः परिमाणचिन्तायांप्रतिसमयमेकैकमनुष्यापहारेसामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपड्रिययते, किमुक्तंभवति?-उत्कृष्टपदे ये मनुष्यास्तेषुमध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेकाऽपह्यिते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्घयेयाभिरुत्सपिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पत्रं, किमुक्तं भवति ? - अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चटाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथम वर्गमूलमसत्कल्पनया षोडशलक्षणं ततस्तृतीयेन वर्गमूलेनासत्कल्पनया द्विकलक्षणेन गुण्यते, गुणितेच सति यावान् प्रदेशराशिर्भवतिअसत्कल्पनया द्वात्रिंशत् एतावप्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियतितावत्मनुष्याअपि निष्ठामुपयान्ति, आह-कथमेकस्याःश्रेणेर्यथोक्तप्रमाणैः खण्डैरपहियमाणायाः असङ्खयेयाउत्सर्पिण्यवसर्पिण्यो लगन्ति? उच्यते, क्षेत्रस्यातिसूक्ष्मत्वात्, उक्तं च सूत्रेऽपि - ॥१॥ "सुहुमो य होइ कालो तत्तो सुहुमयरयं हवइ खेतं ।
अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेजा ।।" इति, मुक्तान्यौधिकमुक्तवत्, वैक्रियाणि बद्धानिसङ्ख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषांचित् वैक्रियलब्धिसंभवात्, मुक्तान्यौधिकमुक्तवत्, आहारकाण्यौधिकाहारकवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत्, मुक्तान्यौधिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां, वैक्रियाणि बद्धान्यसङ्खयेयानि, तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असङ्खयेयाभिरुत्सर्पिण्यवसर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्घयेयाः श्रेणयः, असङ्ख्यातासुश्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः, ताश्च श्रेणयः कियत्य इति चेत् ?, उच्यते, प्रतरस्यास-ड्डयेयो भागः,प्रतराससयेयभागप्रमिता इत्यर्थः, तथा चाह
'वेउब्वियसरीरा जहा नेरइयाण'मिति वैक्रियशरीराणि व्यन्तराणां यथा नैरयिकाणां, केवलं सूच्यां विशेषः, तथा चाह-'नवर'मित्यादि, नवरंतासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org