________________
२८६
प्रज्ञापनाउपागसूत्र-१-१२/-/-/४०२ वर्गमूलेन गुण्यते, गुणिते च सति यावन्तः प्रदेशा भवन्ति तावप्रदेशात्मिका सूचिर्बुद्धया क्रियते, कृत्वा च विष्कम्भतो दक्षिणोत्तरायततया स्थापनीया, तया च स्थाप्यमानया यावत्यः श्रेणयः स्पृश्यन्ते तावत्यः परिगृह्यन्ते, तत्रेदं निदर्शनम्
अङ्गुलमात्रक्षेत्रप्रदेशराशिस्तत्त्वतोऽसङ्ख्यातोऽप्यसत्कल्पनया षट्पञ्चाशदधिके द्वे शते कल्प्येते, तयोः प्रथमवर्गमूलं षोडश द्वितीयं चत्वारस्तृतीयद्वौ, तत्र द्वितीयेनवर्गमूलेनचतुष्कलक्षणेन प्रथमं वर्गमूलं षोडशलक्षणं गुण्यते जाताः चतुःषष्टिः, एतावत्यः श्रेणयः परिगृह्यन्ते, अमुमेवार्थं प्रकारान्तरेण कथयति
___ 'अहवण मित्यादि अथवेति प्रकारान्तरे णमिति वाक्यालङ्कारे अङ्गुलमात्रक्षश्रेत्रप्रदेशराशेर्द्वितीयस्य वर्गमूलस्यासत्कल्पनया चतुष्कलक्षणस्य यो धनस्तावप्रमाणाः, इह यस्य राशेर्योवर्गःसतेनराशिनागुण्यतेततोधनोभवति, यथाद्विकस्याष्टी, तथाहि-द्विकस्यवर्गश्चत्वारस्ते द्विकेन गुण्यन्ते जाता अष्टाविति, एवमिहापि चतुष्कस्य वर्गः षोडश ते चतुष्केन गुण्यन्ते ततश्चतुष्कस्य घनो भवति, तत्रापि सैव चतुःषष्टिरिति, प्रकारद्वयेऽप्यभेदः, इहायंगणितधर्मो यद्वहु स्तोकेन गुण्यते, ततः सूत्रकृता प्रकारद्वयमेवोपदर्शितं, ___अन्यथा तृतीयोऽपि प्रकारोऽस्ति 'अंगुलबिइयवग्गमूलं पढमवग्गमूलपडुपण्ण मिति अन्ये त्वभिदधति-अङ्गुलमात्रक्षेत्रप्रदेशराशेः स्वप्रथमवर्गमूलेन गुणने यावान् प्रदेशराशिर्भवति तावप्रमाणया सूच्यायावत्यः स्पृष्टाः श्रेण्यस्तावतीषु श्रेणिषुयावन्तआकाशप्रदेशास्तावामाणानि नैरयिकाणां बद्धानि वैक्रियशरीराणीति, मुक्तान्यौदारिकवत्।।
__आहारकाणिबद्धानिन सन्ति, तेषां तल्लब्ध्यसम्भवात् । मुक्तानि पूर्ववत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तानि पूर्ववत्।
मू. (४०३) असुरकुमाराणं भंते! केवइया ओरालियसरीरा पं०?, गो०! जहानेरइयाणं ओरासियसरीरामणिता तहेव एतेसिंभाणितव्वा, असुरकुमाराणं भंते! केवइया वेउब्बियसरीरा पं०?, गो० ! दुविहा पं०, तं०-बद्धलगा य मुक्केलगाय, तत्थ णंजे ते बद्धलगा तेणं असंखेजा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीतो पयरस्स असंखेजतिभागो तासि णं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स संखेजतिभागो,
तत्थणजे ते मुक्छेल्लंगा तेणंजहाओरालियस्स मुक्कोल्लगातहा भाणियब्वा, आहारसरीरगा जहा एतेसिं चेव ओरालिया तहेव दुविहा भाणियव्वा, तेयाकम्मगसरीरा दुविहावि जहा एतेसिं चेव विउब्बिया, एवं जाव थणियकुमारा।
वृ. असुरकुमाराणामौदारिकशरीराणि नैरयिकवत्, वैक्रियाणि बद्धान्यसङ्ख्येयानि, तदेवासङ्खयेयत्वं कालक्षेत्राभ्यां प्ररूपयति, तत्र कालसूत्रं प्राग्वत्, क्षेत्रतोऽसङ्खयेयाः श्रेणयः, असङ्घयेयासुश्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानीत्यर्थः, ताश्च श्रेणयःप्रतरस्यासङ्ख्येयो भागः,प्रतरासङ्खयेयभागप्रमिता इत्यर्थः, तत्र नारकचिन्तायामपिप्रतरासङ्ख्येयभागप्रमिता उक्ताः, ततो विशेषतरं परिमाणमाह-'तासिण'मित्यादि, तासां श्रेणिनां परिमाणाय या विष्कम्भसूचिः सा अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनः प्रथमवर्गमूलस्य सङ्खयेयो भागः, किमुक्तं भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org