SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पदं - ११, उद्देशक:-, द्वारं वृ. अल्पबहुत्वचिन्तायां सर्वस्तोकाः सत्यभाषकाः, इह यः सम्यगुपयुज्यसर्वज्ञमतानुसारेण वस्तुप्रतिष्ठानबुध्द्या भाषते स सत्यमाषकतस्ते च पृच्छाकाले कतिपया एव लभ्यन्ते इति सर्वस्तोकाः, तेभ्योऽसङ्घयेयगुणाः सत्यमृषाभाषकाः, बहूनां प्रायो यथा तथा वा सत्यामृषाभाषणसम्भवात्, लोके तथा दर्शनात्, तेभ्योऽसङ्घयेयगुणा मृषाभाषकाः, क्रोधाभिभूतानां परवञ्चनाद्यभियुक्तानां च प्रभूततराणामुपलम्भात् तेषां च मृषाभावकत्वात्, तेभ्योऽसङ्घयेयगुणाः असत्यामृषाभाषकाः द्वीन्द्रियादीनामप्यसत्यामृषाभाषकत्वात्, तेभ्योऽनन्तगुणाः अभाषकाः, सिद्धानामनेकेन्द्रियाणां चानन्तत्वात् ॥ पदं – ११ – समाप्तम् 1 मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे एकादशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । पदं - १२ – “शरीरं" - २७९ बृ. तदेवं व्याख्यातमेकादशं पदं, इदानीं द्वादशममारभ्यते - अस्य चामभिसम्बधःइहानन्तरपदे जीवानां सत्यादिभाषाविभागोपदर्शनं कृतं, भाषा च शरीरारयत्ता, 'शरीरप्रभवा भाषे त्यत्रैव प्रतिपादितत्वात्, अन्यत्राप्युक्तं- 'गिण्हइ य काइएणं निस्सइ तह वाइएण जोएण' मिति, तत्र शरीरप्रविभागप्रदर्शनार्थमिदमारभ्यते, तत्र चेदमादि सूत्रम् सू. (४००) कति णं भंते! सरीरा पन्नत्ता ?, गो० ! पंच सरीरा पं०, तं०-ओरालिए वेउव्विए आहारए तेयए कम्मए, नेरइयाणं भंते! कति सरीरया पन्नत्ता ?, गो० ! तओ सरीरया पं०, तं० - वेउव्विए तेयए कम्मए, एवं असुरकुमाराणवि जाव थणियकुमाराणं । पुढविकाइयाणं भंते! कति सरीरया पं० ?, गो० ! तओ सरीरया पं० तं०-ओरालिए तेयए कम्मए, एवां वाउकाइयवज्जं जाव चउरिदियाणं, वाउकाइयाणं भंते! कति सरीरया पं० गो० ! चत्तारि सरीरया, पं०, तं० -ओरालिए वेउव्विते तेयए कम्मए, एवं पंचिंदियतिरक्खजोणियाणवि. Jain Education International मस्साणं भंते! कति सरीरया पं० ?, गो० ! पंच सरीरया पं० तं०-ओरिलिए वेउव्विते आहारए तेयए कम्मए, वाणमंतरजोइसियवेमामियाणं, जहा नारगाणं । बृ. 'कइ णं भंते! सरीरा पन्नत्ता' इत्यादि, उत्पत्तिसमयादारभ्य प्रतिक्षणं शीर्यन्ते इति शरीराणि तानि भदन्त ! कति-कियत्सङ्ख्याकानि, णमिति वाक्यालङ्कारे, प्रज्ञप्तानि, भगवानाह - पञ्च शरीराणि प्रज्ञप्तानि तान्येवनामत आह- 'ओरालिए' इत्यादि, अमीषां शब्दार्थमात्रमग्रे वक्ष्याम स्तथाऽपि स्थानाशून्यार्थं किञ्चिदुच्यते-उदारं- प्रधानं, प्राधान्यं चास्य तीर्थकरगणधरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वात्, अथवा ओरालं नाम विस्तरवत्, विस्तरवत्ता चास्यवस्थितस्वभावस्य सातिरेकयोजनसहस्रमानत्त्वातच्, वैक्रियं चैतावदवस्थितप्रभाणं न लभ्यते,उत्कर्षतोऽप्यवस्थितप्रमाणस्य पञ्चधनुः शतप्रमाणत्वात्, तच्च तावत्प्रमाणं सप्तम्यां नान्यत्र, यत्तूत्तरवैक्रियं योजनलक्षप्रमाणं न तदवस अथितमाभववर्त्तित्वाभावात्, ततो न तदपेक्षा, आह च चूर्णिकृत् - " ओरालं नाम वित्थरालं विसालंति जं भणियं होइ, कहं ?, साइरेगजोयण For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy