________________
२७५
पदं-११, उद्देशकः-, द्वारंतथास्वाभाव्यात् द्वावुपयोगावेकस्मिन् समयेन स्यातां, ये तु क्रियाविशेषास्ते बहवोऽप्येकस्मिन् समये घटन्त एव, तथादर्शनात्, तथाहि-एकापि नर्तकी भ्रमणादिनृत्तंविदधाना एकस्मिन्नपि समयेहस्तपादादिगता विचित्राः क्रियाः कुर्वती श्यते, सर्वस्यापिवस्तुनः प्रत्येकमेकस्मिन् समये उत्पादव्ययावुपजायेते, एकस्मिन्नेव च समये सातपरिशाटावपि, ततो न कश्चिद्दोषः, आह च भाष्यकृत्॥॥ “गहणनिसग्गपयत्ता परोप्परकविरोहिणो कहं समये ?।
समए दो उपओगान होज किरियाण को दोसो ? ॥" इति, तृतीयेपुनःसमयेतानेवद्वितीयसमयोपात्तान्पुद्गलान्मुञ्चतिनपुनरन्यानादत्ते, उत्कर्षण त्वसङ्खयेयान्यावनिरनन्तरंगृह्णाति, तथा चाह-उत्कर्षेणासङ्खयेयान् समयान्गृह्णाति इति योगः, कदाचित्परोऽसङ्ख्येययैः समयैरेकं ग्रहणं मन्येत तत आह–'अनुसमयं' प्रतिसमयं गृह्णाति, तदु कदाचिद्विरहितमपिव्यवहारतोऽनुसमयमित्युच्येतततस्तदाशक्य व्यवच्छे-दार्थमाह-अविरहितं, एवं निरन्तरं गृह्णति, तत्राद्ये समये ग्रहणमेवननिसर्गः, अगृहीतस्य निसर्गाभावात्, पर्यन्तसमये च मोक्ष एव, भाषाभिप्रायोपरमतो ग्रहणासम्मवात्, शेषेषु द्वितायादिषु समयेषु ग्रहणनिसर्गों युगपत्करोति - 'वाणंभंते!जाइंदब्वाइंभासत्ताएगहियाइंनिसरई' इत्यादिप्रश्नसूत्रसुगम, निर्विचनमाहसान्तरं निसृजति नो निरन्तरं, इयमत्र भावना-इह तावत् ग्रहणं निरन्तरमुक्तं, तथा चानन्तरसूत्रं 'अणुसमयविरहियं निरंतरं गेण्हइ' इति ततो निसर्गोऽपि प्रथमवर्जेषु शेषेषु समयेषु निरन्तरं प्रतिपत्तव्यो, गृहीतस्यावश्यमनन्तरसमयेनिसर्गात, ततोयदुक्तं 'सान्तरं निसृजतिनोनिरन्तर'मिति, तत्र ग्रहणापेक्षया द्रश्टव्यं, तथाहि यस्मिन् समये यानि भाषाद्रव्याणि गृह्णाति नतानि तस्मित्रेव समये मुञ्चति, यथाप्रथमसमये गृहीतानि न तस्मिन्नेवप्रथमसमये मुञ्चति किन्तुपूर्वस्मिन् पूर्वस्मिन् समये ग-हीतानि उत्तरस्मिन् समये, ततो ग्रहणपूर्वो निसर्गोऽगृहीतस्य निसर्गायोगात् इति सान्तरं निसर्ग उक्तः, आह च भाष्यकृत॥१॥ “अनुसमयमनंतरियं गहणं भणियं ततो विमोक्खोऽवि ।
जुत्तो निरन्तरोविय भणइ कहं संतरो भणिओ? ॥ ॥२॥ गहणावेक्खाए तओ निरंतरंजंमि जाइं गहियाई।
नउ तम्मि चेव निसरइजह पढमे निसिरणं नत्थि ॥ निसिरिजइ नागहियं गहणंतरियंति संतरं तेणं ।" इति,
एतदेव सूत्रकृदपि स्पष्टयति-संतरंनिसरमाणोएगेणंसमएणंगेण्हइएगेणंसंएणंनिस्सरइ' इति, एकेन-पूर्वपूर्वरूपेणसमयेनगृह्णातिएकेन उत्तरोत्तररूपेणसमयेन निसृति, अथवा ग्रहणापेक्षं । निसर्गभावात् एकेन-आधेन समयेन गृह्णात्येव न निसृजत्यगृहीतस्य निसर्गाभावात्, तथा एकेन-पर्यवसानसमयेन निसृजत्येव न गृह्णाति, भाषाभिप्रायोपरमतो ग्रहणासम्भवात्, शेषेषु तु द्वितीयादिषु समयेषु युगपद् ग्रहणनिसर्गी करोति, तौ च निरन्तरं जघन्यतो द्वौ समयौ उत्कर्षतोऽसङ्खयेयान्समयान, एतदेवाह-एतेणंगहणनिसरणोवाएणंजहन्नेणंदुसमइयंउक्कोसेणं असंखेनसमइयं अंतोमुहुत्तिगंगहणनिसिरणं करेइ' इति, जीवेणंजाइंदव्वाई' इत्यादि प्रश्नसूत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org