________________
२७४
प्रज्ञापनाउपाङ्गसूत्रं - १-११/-/-/३९१
त्वविषयान् स्पृष्टादिव्यतिरिक्तान्, 'जाइं भंते! सविसए गेण्हइ' इत्यादिक, आनुपूर्वी नाम ग्रहणापेक्षया यथासन्नत्वं तद्विपरीता अनानुपूर्वी, तत्रानुपूव्या गृह्णाति न त्वनानुपूव्या, 'जाई भंते आनुपुवि गेण्हइ' इत्यादि 'तिदिसिं' ति त्रिदिशि गृह्णाति तिसृभ्यो दिग्भ्य आगतानि गृह्णाति एवं चतुर्दिशि पञ्चदिशि षड्देिशिच, एवमुक्ते भगवानाह - गौतम ! नियमात् षड्दिशि गृह्णाति - षड्भ्यो दिग्भ्यः आगतानि गृह्णाति, भाषको हि नियमात् त्रसनाड्यां अन्यत्र त्सकायासम्भवात्, त्रसनाड्यां च व्यवस्थितस्य नियमात् षड्दिगागतपुद्गलसम्भवात् ।
यू. (३९२)
"पुट्ठोगाढ अनंतर अणू य तह बायरे य उहमहे । आदिविसयाणुपुव्विं नियमा तह छद्दिसिं चेव ।।"
वृ. एतेषामेवार्थानां सङ्ग्रहणिगाथामाह - 'पुट्ठोगाढ अनंत' रमित्यादि प्रथमतः स्पृष्टविषयं सूत्रं तदनन्तरमवगाढसूत्रं ततोऽनन्तरावगाढसूत्रं ततोऽणुबादरविषयं सूत्रं तदनन्तरमूर्ध्वाधः प्रभृतिविषयं सूत्रं तत 'आइ' इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं ततो नियमात् षड्दिशितिसूत्रं ।
यू. (३९३) जीवे णं भंते! जाई दव्वाइं भासत्ताए गेण्हति ताइं किं संतरं गेण्हति निरंतरं गेहति ?, गो० ! संतरंपि गेण्हति, निरंतरंपि गेण्हति, संतरं गिण्हमाणे जहन्नेणं एवं समयं उक्कोसेणं असंखेजसमए अंतरं कड्ड गेण्हति, निरंतरं गेण्हमाणे जहन्नेणं दो समए उक्कोसेणं असंखेजसमए अणुसमयं अविरहियं निरंतरं गेण्हति,
जीवे णं भंते! जाई दव्वाइं भासत्ताए गहियाइं निसिरइ ताई किं संतरंनिसरइ निरंतरं निसरइ ?, गो० ? संतरं निसरइ नो निरंतरं निसरइ, संतरं निस्सरमाणे एगेणं समएणं गेण्हति एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहन्त्रेणं दुसमइयं उक्कोसेणं असंखेज्जसमइयं अंतोमुहुत्तिगं गहणनिसरणोवायं करेति,
जीवे णं भंते! जाई दव्वाइं भासत्ताए गहियाइं निसिरति ताइं किं भिण्णाइं निसरति अभिन्नाई निसरति ?, गो० ! भिन्नाइंपि निस्सरइ अभिन्नाइंपि निस्सरइ, जाइं भिन्नाइं निसरति ताइं अनंतगुणपरिवुट्टीएणं परिवहमाणाइंलोयंतं फुसंति, जाई अभिन्नाइं निसरइताइं असंखेजाओ ओगाहणवग्गणाओ गंता भेदभावज्रंति संखेज्जाति जोअणातिं गंता विद्वंसमागच्छति
वृ. 'जीवाणं भंते! जाई दव्वाई' इद्याति, जीवा 'ण' मिति वाक्यालङ्कारे, भदन्त ! यानि द्रव्याणि भाषकत्वेन गृह्णाति तानि किं सान्तरं सव्यवधानं गृह्णाति किं वा निरनन्तरं निव्यवधानं भगवानाह - सान्तरमपि गृह्णति निरन्तरमपि, उभयथापि ग्रहणसम्भवात्, तत्र सानतरनिरन्तरग्रहणयोः प्रत्येकं कालमानं प्रतिपादयति- 'संतरंगिण्हमाणे' इत्यादि, सान्तरं गृह्णन् जघन्यतः एकं समयं अन्तरं कृत्वा गृहाति, एतच जघन्यत एकं समयमन्तरं सततं भाषाप्रवृत्तस्य भाषमाणस्यावसेयं तच्चेवं
कश्चिदेकस्मिन् समये भाषापुद्गलान् गृहीत्वा तदनन्तरं मोक्षसमये अनुपादानं कृत्वा पुनस्तृतीये समये गृह्णत्येव न मुञ्चति द्वितीयेसमये प्रथमसमयगृहीतान्पुद्गलान्मुञ्चति अन्यान्नादत्ते, अथान्येन प्रयत्नविशेषेण ग्रहणमन्येन च प्रयत्नविशेषेण [च] निसर्गः तौ च परस्परं विरुद्धौ परस्परविरुद्धकार्यकरणात् ततः कथमेकस्मिन् समये तौ स्यातां ?, तदयुक्तं, जीवस्य हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org