________________
२७३
पदं-११, उद्देशकः-, द्वारद्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिकानिचित्पञ्चभिः, यदा पुनरेकप्रयत्नगृहीतानामपति सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृहन्ति एवं गन्धरसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोवश्यं स्पर्शद्वयभावात्, तथा चोक्तम्॥१॥ “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च॥" द्विस्पर्शानि-मृदुशीतानि मृदूष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्रत्रिस्पर्शान्येवं कानिचित्द्रव्याणिकिल मृदुशीतस्पर्शानिकानिचित्मूदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मूदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपो तु द्वान्यो स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि, कानिचिच्चतुःस्पर्शानितत्रचतुःस्पर्शेषु मृदुलघुरूपोद्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषुतयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शी स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीती, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति, तत्र यौ द्वौ मृदुलघुरूपी स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचारामावान गण्येते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह-, तद्यथा-'सीयफासाई गेण्हइ' इत्यादि सुगम, यावत् ‘जाई मंते ! अनंतगुणलुक्खाइं गेण्हइ' इह किलचरमंसूत्रमनन्तरमिदमुक्त अनंतगुणलुकअइखाईपिगिण्हइ ततः सूत्रसम्बन्धवशादिदमुक्तं, जाइं भंते ! जाव अनंतगुणलुक्खाइं गेण्हइ', इति 'यावता जाइं मंते ! एगगुणकालवण्णाई इत्याद्यपि द्रष्टव्यं, 'ताईभंते! किंपुट्ठाई इत्यादि, तानिभदन्त! किंस्पृष्टानि आत्मप्रदेशसंस्पृष्टानि गहाति, उतास्पृष्टानि ? भगवानाह-गो० स्पृष्टानि-आत्मप्रदेशैः सह संस्पर्शमागतानि गृहाति नास्पृष्टानि, इहात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाहक्षेत्राद्वहिरपि सम्भवति ततः प्रश्नयति
____ 'जाई भंते !' इत्यादि, अवगाढानि-आत्मप्रदेशैः सह एकक्षेत्रावस्थितानि गृहन्ति नानवगाढानि, 'जाई भंते !' इत्यादि, अनन्तरावगाढानि-अव्यवधानेनावस्थितानि गृह्णानि न परम्परावगाढानि, किमुक्तं भवति ? -येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि, 'जाई मंते ! अनंतरोगाढ़ाई' इत्यादि, अणून्यपि-स्तोकप्रदेशान्यपि गृह्णति बादराण्यपि-प्रभूतप्रदेशोपचितान्यपि, इहाणुत्वबादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षया व्याख्याते, मूलटीकाकारेण तथाव्याख्यानात्, _ 'जाई भंते ! अणूईपि गेण्हइ' इत्यादि, ऊर्ध्वमपि अधोऽपि तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊर्ध्वधस्तिर्यकत्वं द्रष्टव्यं, 'जाई भंते ! उलुपि गेण्हई' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्त यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूर्तप्रमाणस्यादावपि-प्रथमसमये गृह्णति मध्येऽपिद्वितीयादिष्वपि समयेषु गृह्णाति, पर्यवसानेऽपि पर्यवसा नसमयेऽपि गृह्णति, ‘जाइं भंते ! आइंपि गेण्हइ' इत्यादि, स्वविषयान्-स्वगोचरान् स्पृष्टावगाढानन्तरावगाढाख्यान् गृह्णति, न |10|18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org