________________
२७६
प्रज्ञापनाउपाङ्गसूत्रं-१-११/-/-/३९३
सुगमं, भगवानाह - गौतम ! भिन्नान्यपि निसृजति अभिन्नान्यपि इयमत्र भावना - इह द्विविधो वक्ता - मन्दप्रयत्नस्तीव्रप्रयत्नश्च तत्र यो व्याधिविशेषतोऽनादरतो वा मन्दप्रयत्नः स भाषाद्रव्याणि तथाभूतान्येव स्थूलखण्डात्मकानि निसृजति यस्तु नीरोगतादिगुणयुक्तस्तथाविधादरभावतस्तीव्रप्रयत्नः स भाषाद्रव्याणि आदाननिसर्गप्रयत्नाभ्यां खण्डशः कृत्वा निसृजति, आह च भाष्यकृत-॥१॥
"कोई मंदपयत्तो निसिरइ सकलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिदिउं ताई ॥"
तत उक्तं- 'भिन्नापि निसिरइ अभिन्नाइंपि निस्सरइ, जाइ भिन्नाई निसइ' इत्यादि, यानि तीव्रप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजतितानि सूक्ष्मत्वात् बहुत्वाच्च प्रभूतान्यन्यानि द्रव्याणि वासयन्ति, तदन्यद्रव्यासकत्वादेव चानन्तगुणवृध्या परिवर्द्धमानानि षट्सु दिक्षु लोकान्तं स्पृश्नति, लोकान्तं प्राप्नुवन्तीत्यर्थः, उक्तं च
॥१॥
“भिन्नाई सुहुमयाए अनंतगुणवद्धियाई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥"
यानि पुनर्मन्दप्रयत्नो वक्ता यथाभूतान्येव प्राक् भाषाद्रव्याण्यासीरन् तथाभूतान्येव सकलान्यभिन्नानि भाषात्वेन परिणमय्य निसृजति तान्यसत्येया अवगाहनावर्गणा गत्वा, अवगाहना:- एकैकस्य भाषाद्रव्यस्याधारभूता असङ्घयेयप्रदशात्मक क्षेत्रविभागरूपास्तासामवगाहनानां वर्गणाः – समुदायास्ता असङ्घयेया अतिक्रम्य भेदमापद्यन्ते, विशरारुभावं बिभ्रतीत्यर्थः, विशरारुभावं बिभ्राणानि च सङ्घयेयानि योजनानि गत्वा विध्वंसमागच्छन्ति, शब्दपरिणामं विजहतीत्यर्थः, उक्तं च॥१॥
"गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई । भिजंति धंसर्मेति य संखिजे जोयणे गंतुं ॥" भिन्नान्यपि निसृजतीत्युक्तं, तत्र कतिविधः शब्दद्रव्याणां भेद इति पृच्छतिमू. (३९४) तेसि णं भंते ! दव्वाणं कतिविहे भेए पन्नत्ते ?, गो० ! पञ्चविधे भेदे पं०, तं०- कंडाभेदे पयरभेदे चुन्नियाभेदे अनुतडियाभेदे उक्करियाभेदे, से किं तं खंडाभेदे ?, २ जणं अयखंडाण वा तउखंडाण वा तंबखंडाण वा सीसखंडाण वा रययखंडाण वा जातरूवखंडाण वा खंडएण भेदे भवति से तं खंडाभेदे १ ।
से किं तं पयराभेदे ?, २ जण्णं वंसाण वा वेत्ताण वा नलाण वा कदलीयंभाण वा अब्मपडलाण वा पयरेणं भेदे भवति, से तं पयराभेदे २ ।
से किं तं चुन्नियाभेदे ?, २ जण्णं तिलचुण्णाण वा मुग्गचुण्णाण वा मासचुण्णाणवा पिप्पली चुण्णाण वा मिरीयचु० वा सिंगबेरचुण्णाण वा चुण्णियाए भेदे भवति से तं चुण्णियाभेदे ३ ।
से किं तं अनुतडियाभेदे ?, २ जण्णं अगडाण वा तडागाण वा दहाण वा नदीण वा वावीण वा पुक्खरिणीण वा दीहियाण वा गुंजालियाण वा सराण वा सरसराण वा सरपंतियाण वा सरसरपंतियाण वा अणुतडियाभेदे भवति, से तं अनुतडियाभेदे ४ ।
से किं तं उक्करियाभेदे ?, २ जण्णं भूसाण वा मंडूसाण वा तिलसिंगाण वा मुग्गसिंगाज
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International