SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पदं - ११, उद्देशक:-, द्वारं २६९ विसंवादेन चोत्पन्नविगतमिश्रिता ३, तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशी दृष्टे यदा कश्चिदेवं वदति - अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति -अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचिठप्रत्येक वनस्पतिना मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७, तथा प्रत्येक वनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्यप्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा -कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा परिगृह्यते, समिश्रितो यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्त्तमान एव वदति - उत्तिष्ठ रात्रिर्या तेति, रात्रौ वा वर्त्तमानायामुत्तिष्ठोद्गतः सूर्य इति ९, तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्त्तमानायां कश्चित् कश्चन त्वरयन् एवं वदति - चल मध्याह्नीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथा मू. (३८७) आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी य ४ पन्नवणी ५ । पच्चक्खाणी ६ भासा भासा इच्छाणुलोमा, ७ य ॥ वृ. 'आमंताणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ पृच्छनी अविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वे चोदना ४ प्रज्ञापनी विनीतविनयस्य विनेयजनस्योपदेशदानं यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि, उक्तं च 119 11 " पाणिवहाउ नियत्ता हवंति दीहाउया अरोगा य य एमाई पन्नता पन्नवणी वीयरागेहिं ॥ ५ याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी ६ इच्छानुलोमा नाम यथा कश्चित्किञ्चित्कार्यमारमणाणः कञ्चन पृच्छति, स प्राह-करोतु भवान् मामाप्येतदभिप्रेतमिति ७ । मू. (३८८) अणभिग्गहिया भासा ८ भासा य अभिग्गहंमि बोद्धव्वा ९ । संसयकरणी भासा १० वोगड ११ अव्वोगडा चेव १२ ॥ वृ. अनभिग्रहा यत्र न प्रतिनियतार्थावधारणं, यथा बहुकार्येष्ववस्थितेषु कश्चित् कञ्चन पृच्छति - किमिदानीं करोमि?, स प्राह-यठप्रतिभासते तत्कुर्विति ८ अभिगृहीता प्रतिनियतार्थावधारणं यथा इदभिदानीं कर्त्तव्यमिदं नेति ९ संशयकरणी या वाक् अनेकार्थाभिधायितया परत्य संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृः या प्रकटार्था ११ अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वात् १२ । शेषं सुगमं, यावत् 'कइ णं भंते! भासज्जायाः' इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy