SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ प्रज्ञापनाउपाङ्गसूत्रं-१- ११/-/-/३८३ लोकव्यवहारमपेक्ष्य साधोरपि तथाब्रुवतो भाषा व्यवहारसत्या भवति, तथा भावो वर्णादिर्भावतः सत्या भावसत्या, किमुक्तं भवति ? - यो भावो वर्णादिर्यस्मि - कटो भवति तेन या सत्या भाषा (सा) भावसत्या, यथा सत्यपि पञ्चवर्णसम्भये बलाका शुक्लेति, तथा योगः--सम्बन्धः तस्मात् सत्या योगसत्या, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री एवं दण्डयोगात् दण्डी, औपम्यसत्या यथा समुद्रवत्तडागः, अत्रैवार्थे विनेयजनानुग्रहाय सङ्ग्रहणिगाथामाह'जनवयसम्पयठवणा' इत्यादि भावितार्था । मू. (३८४) मोसा णं भंते ! भासा पजत्तिया कतिविहा पं० ?, गो० ! दसविहा पं०, तं०- कोहनिस्सिया १ माननिस्सिया २ मायानिस्सिया ३ लोहनिस्सिया ४ पेजनिस्सिया ५ दोसनिस्सिया ६ हासनिस्सिया ७ भयनि० ८ अक्खाइयानिस्सिया ९ उवघाइयनिस्सिया १०वृ. मृषाभाषा दशविधा, तद्यथा - 'कोहनिस्सिया' इत्यादि, क्रोधान्निः सृताक्रोधाद्विनिर्गता इत्यतः एवं सर्वत्रापि भावनीयं तत्र क्रोधाभिभूतो विसंवादनबुद्धा परप्रत्ययनाय यत्सत्यमसत्यं वा भाषते तत्सर्वं मृषा, तस्य हि आशयोऽतीव दष्टस्ततो यदपि धुणाक्षरन्यायेन सत्यमापतति साठ्यबुध्धा वोपेत्य सत्यं भाषते तदाऽप्याशयदोषदुष्टमिति मृषेति 9, माननिःसृता यत् पूर्वमननुभूतमप्यैश्वर्यमात्मोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमैश्वर्यमित्यादि वदतः २ मायानिःसृता यत् परवञ्चनाद्यभिप्रायेण सत्यमसत्यं वा भाषते लोभनिःसृता यल्लोभाभिभूतः कुटतुलादि कृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतः ४ प्रेमनिःसृता यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदतः ५ - द्वेषनिःसृता यप्रतिनिविष्टः तीर्थकरादीनामप्यवर्णं भाषते ६ हास्यनिःसृता यत्केलिवशतोऽनृतभाषणं ७ भयनिःसृता तस्करादिभयेनासमञ्जसभाषणं ८ आख्यायिकानिःसृता यत्कथास्वसम्भाव्याभिधानं ९ उपघातनिःसृता चौरस्त्वमित्याद्यभ्याख्यानं १०, पू. (३८५) 'कोहे माणे माया लोभे पिज्जे तहेव दोसे य । हास भए अक्खाइय उवधाइयनिस्सिया दसमा ।।' वृ. अत्रापि सङ्ग्रहणिगाथामाह - 'कोहे माणे' इत्यादि, भावितार्थाः । " मू. (३८६) अपजत्तिया णं भंते! कइविहा भासा पं० ?, गो० ! दुबिहा पं० तं० - सच्चामोसा असच्चामोसा य, सच्चामोसा णं भंते! भासा अपज्जत्तिया कतिविहा पं० ?, गो० ! दसविहा पं० तं०, उप्पन्नमिस्सिया 9 विगतमिस्सिया २ उप्पन्नविगतमिस्सिया ३ जीवमिस्सिया ४ अजीवमिस्सिया ५ जीवाजीवमिस्सिया ६ अनंतमि० ७ परित्तमिस्सिया ८ अद्धामिस्सिया ९ अद्धद्धामिस्सिया १० | असच्चामोसा णं भंते! भासा अपज्जत्तिया कइविहा पं०, गो० ! दुवालसविहा, पं०, तं० वृ. सत्यामृषा दशविधा, तद्यथा - 'उप्पन्नमिस्सिया' इत्यादि, उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यायपूर्णार्थं यत्र सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भावनीयं, तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चित् ग्रामे नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि १, एवमेव मरणकथने विगतमिश्रिता २, तथा जन्मतो मरणस्य च कृतपरिमाणस्याभिधाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy