________________
पदं--११, उद्देशकः-, द्वारं.
२६५
जोगसना ९ ओवम्मसच्चा १०,।
वृ.पुनःप्रश्नयति- 'कइविहाण'मित्यादि, पजत्तिया अपञ्जत्तिया' इति पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात्, यातु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनियतरूपतयाऽवधारियुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपेणावधारयितुमशक्यत्वात्, ‘पज्जत्तिया णं भंते !' इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-'सच्चा णं भंते ! भासा पज्जत्तिया कइविहा पण्णत्ता' इति पाठसिद्ध, भगवानाह–'गोयमा !' इत्यादि। मू. (३८३) जनवय १ समंत २ ठवणा नामे ४ रूये ५ पडुबसचे ६ य।
ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥ वृ. 'जनवयसच्चा' इति तं तं जनपदमधिकृत्येषार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात सत्या जनपदसत्या यथा कोङ्कणादिषु पयः पिञ्चमित्यादि १,
सम्मतसत्या या सकललोकसाम्मत्येन सन्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपिपङ्कसंभवत्वे गोपालजना अरविन्दमेव पङ्कजंमन्यन्ते नशेषमित्यरविन्दमेव पङ्कजमिति सम्मतसत्या २ स्थापनासत्या या तथाविधमङ्कादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककंपुरतोबिन्दुव्यसहितमुपलभ्यशतमिदमिति, बिन्दुत्रयसहितंसहनमिदमिति,तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु माषोऽयं कार्षापणोऽयमिति,
तथा नामतः सत्या नामसत्या यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्मतो गृहीतप्रवजितरूपः प्रव्रजितोऽयमिति,
तथाप्रतीत्य-आश्रित्यवस्त्वन्तरं सत्याप्रतीत्यसत्या यथा अनामिकाया कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य ह्रस्वत्वं, न च वाच्यं कथमेकस्यां ह्रस्वत्वं दीर्घत्वं च तात्त्विकं ?, परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात्, तथाहि-तामेवयदि कनिष्ठांमध्यमां वा एकामङ्गुलिमङ्गीकृत्य इस्वत्वं दीर्घत्त्वं च प्रतिपाद्येत ततो विरोधःसम्भवेत्, एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात्, यदात्वेकामधिकृत्य हस्वत्वमपरामधिकृत्यदीर्घत्वंतदासत्त्वासत्वयोरिवभिन्ननिमित्तत्वान्न परस्परं विरोधः, अथ यदि तात्त्विके ह्रस्वत्वदीर्घत्वे ततऋजुत्ववक्रत्वे इवकस्मात्ते परनिरपेक्षेन प्रतिभासेते?, तस्मात्परोपाधिकत्वात् काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनोधर्माः-सहकारिव्यङ्गयरूपाइतरेच, तत्रयेसहकारिव्यङ्गयरूपास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, इतरे त्वेवमेवापि यथा कर्पूरादिगन्धः, इस्वत्वदीर्घत्वेन अपि च सहकारिव्यङ्गयरूपे, ततस्ते तं सहकारिणामासाद्याभिव्यक्तिमायात इत्यदोषः,
तथा व्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, यथा गिरिदह्यते गलति भाजनं अनुदरा कन्या अलोमिका एडका, लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दह्यते इति ब्रुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति, संभोगबीजप्रभवोदराभावे अनुदरा इति, लवनयोग्यलोमाभावे अलोमिकेति, ततो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org