________________
२६६
प्रज्ञापनाउपाङ्गसूत्र-१-११/-1-1३७९
कारणान्तरादुत्पद्यते इति भावः, तथा किंसस्थितेति-केनाकारेण संस्थिता किसंस्थिता, कस्येव संस्थानमस्या इति भावः, तथा किंपर्यवसिता इति कस्मिन् स्थाने पर्यवसिता-निष्ठां गता किंपर्यवसिता?, भगवानाह-गौतम! जीवादिका जीवआदि:-मौलं कारणंयस्याः साजीवादिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात्, आह च भगवान् भद्रबाहुस्वामी॥१॥ “तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स।
जेहि उ गेण्हइ गहणं तो भासइ भासओ भासं ।।" मू. (३८०) 'भासा कओ य पभवति, कतिहि व समएहि भासती भासं।
भासा कतिप्पगारा कति वा भासा अनुमया उ॥ मू. (३८१) सरीरप्पभवा भासा दोहि य समएहिं भासती भासं!
भासा चउप्पगारा दोन्नि य भासा अनुमताउ ।। वृ. "किंपभवा' इत्यस्य निर्वचनमाह-शरीरप्रभवा' औदारिकवैक्रियाहाराकान्यतमशरीरसामथ्यदिव भाषाद्रव्यविनिर्गतः, तथा किंसंस्थिता इत्यस्य निर्वचनं वज्रसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वज्रसंस्थिता, भाषाद्रव्याणि हि तथाविधप्रयत्ननिसृष्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति, लोकश्च वज्राकारसंस्थित इति सापि वज्रसंस्थिता, 'किंपर्यवसिते'त्यत्र निर्वचनं लोकान्तपर्यवसिता, परतो भाषाद्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात, प्रज्ञप्ता मया शेषैश्च तीर्थकृभिः -पुनरपि प्रश्नमाह 'भासा कतो य पभवा' इत्यादि, भाषा कुतो योगात्प्रभवति-उत्पद्यते काययोगाद्वाग्योगाद्वा? तथाकतिभिः समयैर्भाषा भाषते ? किमुक्तं भवति?-कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा-कतिप्रभेदा ? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाता?
अत्र निर्वचनं-‘सरीरप्पभा' इत्यादि, अत्र शरीरग्रहणेनशरीरयोगः परिग-ह्यते, शरीरमात्रप्रभवत्वस्यप्रागेव निर्णीतत्वात्, शरीरप्रभवाइतिकोऽर्थः? --काययोगप्रभवा, तथाहि-काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगबलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आह चभगवान् भद्रबाहुस्वामी-"गिण्हइ यकाइएणं निसरइतह वाइएणजोगेण मिति, कइहि व समएहिं भासाई भास'मित्यस्य निर्वचनं द्वाभ्यांसमयाभ्यां भाषतेभाषां, तथाहि-एकेन समयेन भाषायोग्यान् पुद्गलान् गृह्णाति द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति, 'भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा सत्यादिभेदाच्चतुःप्रकाराते च सत्यादयो भेदाः प्रागेव भाविता इति, 'कइ वा मासा अनुमया य' इत्यस्य निर्वचनं सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृषा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयथाव-स्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्,
मू. (३८२) कतिविहाणंभंते! भासा पन्नत्ता?, गो०! दुविहा भासा पं०, तं०-पजत्तिया य अपञ्जत्तिया य, पजत्तिया णं भंते ! भासा कतिविहा पं०?, गो० ! दुविहा पं० तं०- सच्चा मोसाय, सच्चा णं भंते! भासा पन्जत्तिया कतिविहा पं० गो० दंसविहा, पं० तं०-जाणवयसच्छा १ सम्मयसच्चा २ ठवणासच्चा ३ नामसच्चा ४ रुवसच्चा ५ पडुसचा ववहारसच्चा७ भावसच्चा८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org