SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पदं - ११, उद्देशक:-, द्वारं २६५ समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, तस्यानेकत्वभावात् बहुवचनं । 'अहं भंते! मणुस्सी' त्यादि, अत्रेदं संशयकारणं-इह सर्वं वस्तु त्रिलिङ्ग, तथाहिमृद्रूपोऽयमिति पुंल्लिङ्गता मृत्परिणतिरियं घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदं वस्तित्वति नपुंसकलिङ्गता, तत्रैवं शबलरूपे वस्तुनि व्यवस्थिते कथमे कलिङ्गमात्राभिधायी शब्दस्तदभिधायी भवति, न खलु नरसिंहे सिंहशब्दो नरशब्दो वा केवलस्तदभिधायी भवति, अथ च दृश्यते तदभिधायितयाऽपि लोके व्यवहारस्ततः पृच्छति 'सव्वा सा इत्थिवऊ' इति, सर्वा सा एवंप्रकारा स्त्रीवाक्स्त्रीलिङ्गविशिष्टार्थप्रतिपादिका वाक् भवति ?, काक्वा पाठात् प्रश्नार्थत्वावगतिः, भगवानाह - 'हंता गोयमे' त्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं- यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो न्यायः- येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वे शास्त्रज्ञत्वे दातृत्वे भोक्तृत्वे जनकतवे ऽध्यापयितृत्वे च युगपद् व्यवस्थितेऽपि पुत्रः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय इति, एवमिहापि यद्यपि मानुषीप्रभृतिकं सर्वं त्रिलिङ्गात्मकं तथापि योनिर्मृदुकत्वमस्यैर्यादिलक्षणं स्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततः प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषधर्म्माणं धर्म्मिणं प्रतिपादयतीति भवति सर्वा सा स्त्रीवक्, एवं पुंवाग्नपुंसकवाचावपि भावनीये । 'अह भंते ! पुढवी' इत्यादि सुगमं, नवरं 'आऊ' इति पुंल्लिङ्गता प्राकृतलक्षणवशात्, संस्कृते तु स्त्रीत्वमेव, 'अह भंते! पुढवीति इत्थी आणवणी' इत्यादि, अथ भदन्त ! पृथिवीं कुरु पृथ्वीमानयेत्येवं स्त्रियां - स्त्रीलिङ्गे पृथिव्या आज्ञापनी एवमाऊ इति पुमाज्ञापनी धान्यमिति नपुंसकाज्ञापनी प्रज्ञापन्येषा भाषा नैषा भाषा मृषेति ?, भगवानाह - 'हंता गो० !' इत्यादि सुगमं, 'अह भंते' इत्यादि, अथ भदन्त ! पृथिवी इति स्त्रीप्रज्ञापनी - स्त्रीत्वस्वरूपस्य प्ररूपणी एवं आऊ इति पुंप्रज्ञापनी धान्यमिति नपुंसकप्रज्ञापनी आराधनी - मुक्तिमार्गाप्रतिपनथिनी एषा भाषा नैषा भाषा मृषेति ?, किमुक्तं भवति ? - नैवं वदतो मिथ्याभाषित्वप्रसङ्गः, भगवानाह - आराधनी एषा भाषा, नषा भाषा मृषेति, शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् प्रतिपदं प्रष्टुं शक्यते ततोऽतिदेशेन पृच्छति 'इच्छेवं भंते!' इत्यादि, इतिः - उपदर्शने एवंशब्दः प्रकारे उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं पुंवतचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेवं वदति या भाषा सा प्रज्ञापनी भाषा नैषा भाषा मृषेति ?, भगवानाह - प्रज्ञापनी एषा भाषा, शाब्दव्यवहारानुसरणतो दोषाभावात्, अन्यथास्तिथे हि वस्तुन्यन्यथा भाषणं दोषः यदा तु यद्वस्तु यथावस्थितं तत् तथा भाषते, तदा को दोष इति ? ॥ तदेवं भाषाप्रतिपादनविषया ये केचन सन्देहास्ते सर्वेऽप्यपनीताः, सम्प्रति सामान्यतो भाषायाः कारणादि पिपृच्छिषुराह मू. (३७९) भासा णं भंते! किमादीया किंपवहा किंसंठिया किं पज्जवसिया ?, गो० ! भासा णं जीवादीया सरीरप्पभवा वज्रसंठिया लोगंतपज्जवसिया पन्नत्ता, वृ. " भासा णं भंते! किमाइया' इत्यादि, भाषा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका - उपादा नकारणव्यतिरेकेण किमादिः - मौलं कारणं यस्याः सा किमादिका, तथा किंप्रभवा- - कस्मात् प्रभव-उत्पादो यस्याः सा किंप्रभवा, सत्यपि मौले कारणे पुनः कस्मात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy