________________
पदं-१०, उद्देशकः-, द्वारं--
तत्र द्व्यादीनामष्टादशपर्यन्ताना प्रतिषेधकारणं प्रागुक्तमनुसर्तव्यं न केवलमत्र किन्तु सर्वष्वप्युत्तरेषु स्कन्धेषु, यस्तु द्वाविंशतितमः सोऽष्टप्रदेशकस्यैव घटते न सप्तप्रदेशकस्येत्युक्तं प्राक्, तत इह प्रतिषेधः, शेषास्तुप्रथमादयःषड्विशतितमपर्यन्ताः सप्तदशभङ्गाः षट्प्रदेशस्न्धस्येव भावनीयाः, केवलं विनेयजनानुग्रहाय स्थापनामात्रेणोपदयन्ते-प्रथमो भङ्गश्चरमभङ्गः, तृतीयोऽवक्तव्यः, सप्तमश्चरमश्चाचरमश्चअष्टमश्चरमश्चाचरमी च नवमश्चरमौ चाचरमश्चदशमश्चरमौ चाचरमौ च एकादशश्चरमश्वावक्तव्यश्च द्वादशश्चरमश्चावक्तव्यौ च त्रयोदशश्चरमौ चावक्तव्यश्च चतुर्दशश्चरमौ चावक्तव्यौ च एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौच एकविंशतितमश्चरमश्चाचरमौचावक्तव्यश्चत्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यश्च चतुर्विंशतितमश्चरमौ चाचरमश्चावक्तव्यश्चपञ्चविंशतितमश्चरमौ चाचरमौ चावक्तव्यश्च षड्विंशतितमश्चरमौ चाचरमौ चावक्तव्यौ च इह यस्मात्सप्ताप्रादेशिकः स्कन्ध एकस्मित्राकाशप्रदेशेऽयगाहते द्वयोरि त्रिष्वपि यावत्सप्तस्वपि तत एवं भङ्गाः संभवन्ति ।। ___'अट्ठपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रं अट्ठपएसिए णं खंधे सिय चरमे' इत्यादि, अत्र द्वितीयचतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशरूपा अष्टौ भङ्गाः प्रतिषेध्याः, शेषा ग्राह्याः, वक्ष्यति च॥१॥ "विचउत्थपंचछट्टे पन्नर सोलं च सत्तरऽट्ठारं ।
एए वजिय भंगा सेसा सेसेसु खंधेसु।।" सुगमा, नवरं 'सेसा सेसेसुखंधेसु' इति शेषा; भङ्गाः शेषेषु सप्तप्रदेशकात् स्कन्धादितरेषुअष्टाप्रदेशादिकेषु सर्वेषु स्कन्धेषु द्रष्टव्याः, अन्ये त्वेवमुत्तरार्द्धं पठन्ति-“एए वज्जिय मंगा तेण परमवडिया सेसा" सुगम, तेच प्रथमादयो भङ्गाः षड्विंशतिपर्यन्ताअष्टादशभावनातः प्रागवद् भावनीयाः, नवरं 'चरमश्चाचरमौ चावक्तव्यौ च' इत्येवंरूपो द्वाविंशतितमो भङ्गः अथ द्विप्रदेशकादिषु स्कन्धेषु अवक्तव्यौ इत्येवंरूपः षष्ठो भङ्गः कस्मात्प्रतिषिध्यते ?, तस्यापि युक्तितः संभवभावात्, तथाहि-यदैकः परमाणुरेकस्मिन्नाकाशप्रदेशे द्वितीयो विश्रेणिस्थे प्रदेशे, तथा एकोप्यवक्तव्यो द्वितीयोऽप्यवक्तव्य इति भवत्यवक्तव्याविति भङ्गः, प्रदेशकचिन्तायामेकस्मिन्नेकः परमाणुः अपरस्मिन् द्वौ चतुष्प्रदेशकचिन्तायां प्रत्येकं द्वौ द्वौ परमाणू इत्यादि, सत्यमेतत्, केवलमेवंरूपं जगति द्रव्यमेव नास्ति, कथमेतदवसितम् ? इति चेत्, उच्यते, अत एवप्रतिषेधवचनात्, यदि हि तथारूपं द्रव्यं संभवेद्नाचार्य प्रतिषेधं कुर्यादिति, यदिवा संभवेऽपि जातिपरनिर्देशात् तृतीयभङ्गक एवान्तर्भावो वेदितव्यः
यथा चाष्टप्रदेशके स्कन्धे भङ्गाः प्रतिषेध्या विधेयाश्चोक्तास्तथा संख्यातप्रदेशके असंशयातप्रदेशके च प्रत्येकं वक्तव्याः, तथा चाह-'संखेज्जपसिए असंखेजपएसिए' इत्यादि, पाठसिद्धं, नवरमियं सर्वत्र भावना-यस्मादेकादिष्वप्याकाशप्रदेशेष्वष्टप्रदेशकादीनां स्कन्धानामवगाहो भवति तथा (तो) घटन्ते यथोक्ताः सर्वेऽपि भङ्गाः, नन्वसंख्यातप्रदेशात्मकस्यानन्तप्रदेशात्मकस्य च स्कन्धस्य कथमेकस्मिन्नाकाशप्रदेशेऽवगाहः?,उच्यते, [तथा] तथामाहास्यात्, नचैतदनुपपन्, युक्तितः सम्भाव्यमानत्वात्, तथाहि अनन्तानन्ता द्विप्रदेशकाः स्कन्धा यावदनन्तानन्ताः संख्येयप्रदेशात्मकाः अनन्तानन्ताअसंख्येयप्रदेशात्मकाः स्कन्धाअनन्तानन्ताअनन्तप्रदेशात्मंकाः, लोकश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org