________________
२५०
प्रज्ञापनाउपाङ्गसूत्र-१-१०-1-1३६५
दवयावगाढाववक्तव्याविति, त्रयोदशश्चरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वी परमाणू द्वयोराकाशप्रदेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थेचैकस्मिन्नाकाशप्रदेशे द्वाविति, तदाद्विप्रदेशावगाढव्यणुकस्कन्धवदुपरितनद्विप्रदेशावगाढौ द्वौ परमाणू एकश्चरमो द्वावधस्तनाविति चरमौ, द्वावेकप्रदेशावगाढौ परमाणुवदेको ऽवक्तव्यः, चतुर्दशश्चरमौचावक्तव्यौ च, तत्र यदास एवषट्प्रदेशकः स्कन्धःषट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौतयोरेवाधः समश्रेणिव्यवस्तितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभागमसश्रेणिस्थे प्रदेशे,
एक उपरितनयोर्द्वयोर्विश्रोणिस्थे, तदा द्वावुपरितनावेकश्चरमो द्वावधस्तनाविति चरमौ द्वा चावक्तव्याविति, एकोनविंशतितमश्चरमश्चारमश्चावक्तव्यः, स चैवं यदा स षट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थकैधिकमवगाहते, , तदा एकवेश्टकाश्चत्वारः परमाणवःप्रागुक्तयुक्तरेकश्चरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौच, ससप्तमप्रदेशकस्यैवोपपद्यतेनषट्प्रदेशकस्य,योऽप्येकविंशतितमश्चरमश्चाचरमौ चावक्तव्यश्च, सोऽपि सप्तप्रदेशकस्यैव न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौच, सोऽष्टप्रदेशकस्यैवेति, त्रयोऽप्येतेविंशत्यादयोऽत्रप्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः,
स एवं-यदा सएवषट्प्रदेशकः स्कन्धश्चतुष्वाकाशप्रदेशेष्वेवमवगाहते-द्वौ द्वौ परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थेतृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, तदा आद्यप्रदेशावगाढौ द्वौ परमाणूचरमस्तृतीयप्रदेशावगाढश्चरम इति द्वौचरमौ द्वितीयप्रदेशावगाढौ द्वौ परमाणू चरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहतेत्रिष्कावाकशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाद्ये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, तदाआद्यन्त प्रदेशावगाढौचरमौ मध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्च, यदा स एव षट्प्रदेशात्मकः स्कन्ध पञ्चसुप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते-चतुष्वाकाशप्रदेशेषुसमश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः, तदाआद्यन्तप्रदेशवर्तिनो चरमौ मध्यप्रदेशद्वयवर्तिनौ द्वाचरमौ विश्रेणियप्रदेशस्थ एकोऽवक्तव्यः, षड्विशतितम; चरमौ चाचरमौचावक्तव्यौ च, स चैवं यदा सषट्प्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषुसमश्रेण्या विश्रेण्या चैवमवगाहते
तदाआद्यन्तप्रदेशावगाढौ द्वौचरमौ द्वौमध्यप्रदेशावगाढावचरमौ द्वौच विश्रेणिस्थप्रदेशद्वयावगाढववक्तव्याविति । सत्तपएसिएणं भंते! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत, निर्वचनमाह'गोयमा ! सत्तपएसिए णं खंधे सिय चरमे नो अचरमे' इत्यादि, इह द्वितीयचतुर्थपञ्चममष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव भङ्गाः प्रतिषेध्याः, शेषा उपादेयाः, वक्ष्यति च॥१॥ “बिचउत्थपंचमुटुं पन्नरसोलं च सत्तरट्ठारं ।
वञ्जिय बावीसइमं सेसा भंगा उ सत्तमए।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org