SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पदं - १०, उद्देशक:-, द्वारं २४३ प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्डसत्कानामेव प्रदेशानां भावात्, तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽपि लोकस्य अचरमान्तप्रदेशा असत्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यतिप्रभूतत्वात्, तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात्, तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशा; समुदिता विशेषाधिकाः, कथमिति चेत्, उच्यते, इहालोकस्याचरमान्तप्रदेशराशी लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च प्रक्षिप्यन्ते, तेच सर्वसङ्ख्ययाऽप्यसङ्ख्येय (S संख्यया) श्चानन्तराश्यपेक्षयाऽतिस्तोका इति प्रक्षेपेऽपि तेऽलोकस्याचरमान्तप्रदेशेभ्यो विशेषाधिका एव । एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिभावनीयं, नवरं लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्घयेयगुणा इति, लोकस्य किल चरमाणि खण्डान्यष्टी, एककैकस्मिंश्च खण्डदेशे खण्डप्रदेशा असङ्घयेय लोकालोकचरमाचरमखण्डानि च समुदितानि द्वाविंशतिः, ततो घटन्ते लोकालोकचरमाचरमखण्डेभ्यो लोकस्य चरमान्तप्रदेशा असङ्ख्त्येयगुणाः, शेषपदभावना प्राग्वत्, 'सव्वदव्वा विसेसाहिया' इति लोकालोकचरमाचरमान्तप्रदेशेभ्यः सर्वद्रव्याणि विशेषाधिकानि, अनन्तानन्तसङ्ख्यानां जीवानां तथा परमाण्वादीनामनन्तपरमाण्वात्मकस्कन्धपर्यन्तानां प्रत्येकानामनन्तसङ्ख्यायनां पृथक् पृथक् द्रव्यत्वात्, तेभ्योऽपि सर्वप्रदेशा अनन्तगुणाः, तेभ्योऽपि सर्वपर्याया अनन्तगुणाः, प्रतिप्रदेशं स्वपरभेदभिन्नामनां पर्यायाणामानन्त्यात्, । तदेवं रत्नप्रभादिकं चरमाचरमभेदतश्चिन्तितं, इदानीं परमाण्वादिकं चिन्तयन्नाह- मू. (३६४) परमाणुपोग्गले णं भंते! किं चरिमे १ अचरिमे २ अवत्तव्वए ३ चरमाई ४ अचरमाई ५ अवत्तव्वाइयं ६ उदाहु चरिमे य अचरिमे य ७ उदाहु चरमे य अचरमाई ८ उदाहु चरमाई अचरमे य ९ उदाहु चरमाई च अचरमाई च १० पढमा चउभंगी उदाहु चरिमे य अवत्तव्वए य ११ उदाहु चरमे य अवत्तव्वयाइं च १२ उदाहु चरमाइं च अवत्तव्वए य १३ उदाहु चरमाई च अवत्तव्वयाइं च १४ बीया चउभंगी उदाहु अचरिमे य अवत्तव्वए य १५ उदाहु अचरमे य अवत्तव्वयाइं च १६ उदाहु अचरमाई च अवत्तव्वए य १७ । उदाहु अचरमाइं च अवत्तव्वयाइं च १८ तइया चउभंगी उदाहु चरमे य अचरमे य अवत्तव्वए य १९ उदाहु चरमे य अचरमे य अवत्तव्वयाइं च २० उदाहु चरमे च अचरमाई च अवत्तव्वए य २१ उदाहु चरमे य अचरमाई च अवत्तव्वयाई च २२ उदाहु चरमाई च अचरमे य अवत्तव्वए य २३ उदाहु चरमाइं च अचरमे य अवत्तव्वयाई (च) २४ उदाहु चरमाई च अचरमाई च अवत्तव्व य २५ उदाहु चरमाई व अचरमाई च अवत्तव्वयाइं च २६, एते छव्वीसं भंगा, गोयमा ! परमाणुपोग्गले नो चरमे नो अचरमे नियमा अवत्तव्चए, सेसा भंगा पडिसेहेयव्वा ॥ वृ. 'परमाणुपोग्गले णं भंते!' इत्यादि, अत्र प्रश्नसूत्रे षडएविंशतिर्भङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यलक्षणानि, तेषां चैकैकसंयोगे प्रत्येकमेकवचनास्त्रयो भङ्गाः, तद्यथाचरमोऽचरमोऽवक्तल्यकः त्रयो बहुवचनेन, तद्यथा - चरमाणि १२ अचरमाणि २ अवक्तव्यानि ३, सर्वसङ्ख्यया षट्, द्विकसंयोगास्त्रयः, तद्यथा - चरमाचर्मपदयोरेकः चरमावक्तव्यपदयोर्द्वितीयः अचरमावक्तव्यकपदयोस्तृतीयः, एकैकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोगे एवंचरमश्चाच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy