SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०५ पदं-५, उद्देशकः-, द्वारंचावधिविभङ्गासंभवः, तथास्वाभाव्यात, अतो द्वे एवज्ञाने द्वेचाज्ञाने इति, तथाऽजधन्योत्कृष्टावगाहनः सङ्ख्येयवर्षायुष्कोऽपि भवति असङ्ख्येयवर्षायुष्कोऽपि भवति, असङ्खयेयवर्षायुष्कोऽपि गव्यतद्विगव्यतोच्छ्रय; ततोऽवगाहनयाऽपिचतुःस्थापतितत्वं स्थित्याऽपितथा, आद्यैश्चतुर्भिर्मतिश्रुतावधिमनःपर्यायरूपैनिः षट्स्थानपतिताः, तेषां चतुर्णामपि ज्ञानानां तत्तद्रव्यादिसापेक्षतयाक्षयोपशमवैचित्र्यतस्तारतम्यभावात्, केवलज्ञानपर्यवैस्तुल्यता, निःशेषस्वावरणक्षयतः प्रादुर्भूतस्य केवलज्ञानस्य भेदाभावात्, शेषसुगर्म, जघन्यस्थितिकमनुष्यसूत्रे ‘दोहिं अन्नाणेहिं इति द्वाभ्यामज्ञानाभ्यां मत्यज्ञानश्रुतज्ञानरूपाभ्यां षट्स्थानपतितता वक्तव्या, न तु ज्ञानाभयां, कस्मादिति चेत् ?, उच्यते, जघन्यस्थितिका मनुष्याः संमूर्छिमाः, संमूर्छिममनुष्याश्च नियमतो मिथ्याष्टियः, ततस्तेषमज्ञाने एव न तु ज्ञाने, उत्कृष्टस्थितिकमनुष्यसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिका हि मनुष्यास्त्रिपल्योपमायुषः, तेषां च तावदज्ञाने नियमेन यदा पुनः षण्मासावशेषायुषो वैमानिकेषु बद्धायुषस्तदा सम्यकत्वलाभात् द्वे ज्ञाने लभ्येते अवधिविभङ्गी चासङ्ख्येयवर्षायुषां न स्त इति त्रीणि ज्ञानानि त्रीण्यज्ञानानीनि नोक्तं, अजघन्योत्कृष्टस्थितिकमनुष्यसूत्रमजधन्योत्कृष्टावगाहनमुश्यसूत्रमिवल भावनीयं,। जघन्याभिनिबोधिकमनुष्यसूत्रे द्वे ज्ञाने वक्तव्ये द्वे दर्शने च, किं कारणं इति चेत् ?, उच्यते, जघन्याभिनिबोधिकोहि जीवोनियमादवधिमनःपर्यवज्ञानविकलः, प्रबलज्ञानावरणकर्मोदयसद्भावात्, अन्यथा जघन्याभिनिबोधिकज्ञानत्वायोगात्, ततः शेषज्ञानदर्शनासंभवादाभिनिबोधिकज्ञानपर्यवैस्तुल्यः श्रुतत्रानपर्यवैाभ्यां दर्शनाभ्यां च षट्स्थानपतिततोक्ता, उत्कृष्टाभिनिबोधिकसूत्रे ठिईएतिहाणवडिए' इति उत्कृष्टाभिनिबोधिकोहि नियमात्सङ्खयेयवर्षायुः, असङ्खयेयवर्षायुषः तथाभवस्वाभाव्यात् सर्वोत्कृष्टाभिनिबोधिकज्ञानासंभवात, सङ्घयेयवर्षायुषश्च प्रागुक्तयुक्तेः स्थित्या त्रिस्थानपतिता इति, जघन्यावधिसूत्रे उत्कृष्टावधिसूत्रे चावगाहनया त्रिस्थानपतितो वक्तव्यः, यतः सर्वजधन्योवधिर्यथोक्तस्वरूपो मनुष्याणां पारभविको न भवति, किंतु तद्भावभावी, सोऽपिचपर्याप्तावस्थायां, अपर्याप्तावस्थायांतद्योग्यविश्रुधमावात्, उत्कृष्टोऽ. प्यवधिर्भावतश्चारित्रिणः, ततो जघन्यावधिरुत्कृष्टावधिर्वाऽवगाहनया त्रिस्थानपतितः, अजधन्योत्कृष्टस्त्ववधिः पारभविकोऽपि संभवतिततोऽपर्याप्तावस्थायामपित्तस्य संभवात् अजधन्योत्कृष्टावधिरवगाहनया चतुःस्थानपतितः, स्थित्या तु जघन्यावधिरुत्कृष्टावधिरजधन्योत्कृष्टावधिर्वा त्रिस्थानपतितः, असङ्खयेयवर्षायुषामवधेरसंभवात, सङ्ख्येयवर्षायुषां च त्रिस्थानपतितत्वात्, जघन्यमनःपर्यवज्ञानी उत्कृष्टमनःपर्यवज्ञानी अजधन्योत्कृष्टमनःपर्यवज्ञानीच स्थित्या त्रिस्थानपतितः, चारित्रिणामेव मनः पर्यायज्ञानसद्भावात, चारित्रिणांच सङ्ख्येयवर्षायुष्कत्वात्, केवलज्ञानसूत्रेतु ओगाहणट्ठयाए चउट्ठाणवडिए' इति केवलिसमुद्घातं प्रतीत्य, तथाहि केवलिसमुद्घातगतः केवल शेषकेवलिभ्योऽसङ्खयेयगुणाधिकावगाहनः तदपेक्षया शेषाः केवलिनोऽसङ्घयेयगुणहीनावगाहनाः स्वस्थाने तुशेषाः केवलिनस्त्रिस्थानपतिताइति स्थित्या त्रिस्थानपतितत्वं, सङ्खयेयवर्षायुष्कत्वाः मू. (३२१) वाणमंतरा जहा असुरकुमारा । एवं जोइसियवेमाणिया, नवरं सट्ठाणे ठिई: तिट्ठाणवडिए प्राणियव्ये, सेत्तं जीवपज्जवा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy