SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पदं - ५, उद्देशक:-, द्वारं 'ठीईए सिय हीणे' इत्यादि, यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतित उक्तस्तथा स्थित्याऽपि वक्तव्य इति भावः, एतदेवाह - 'जइ हीणे' इत्यादि, तत्रैकस्य किल नारकस्य त्रयस्त्रिशत्सागरोपमाणि स्थितिः अपरस्य तु तान्येव समयादिन्यनानि, तत्र यः समयादिन्यूनत्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्घयेयभागहीनः परिपूर्णत्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षयाऽसङ्घत्येयभागाभ्याधिकः, समयादेः सागरोपमापेक्षयाऽसङ्घयेयभागमात्रत्वात् । १९१ तथाहि - असङ्खयेयैः समयैरेकाऽऽवलिका सङ्ख्याताभिरावलिकाभिरेक उच्छ्वासनिःश्वासकालः सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोकः सप्तभिः स्तोकैरेको लवः सप्तसप्तत्या लवानामेको मुहूर्तः त्रिंशता मुहूर्तैरहोरात्रः पञ्चदशभिरहोरात्रैः पक्षः द्वाभ्यां पक्षाभ्या मासः द्वादशभिर्मासैः संवत्सरः असङ्ख्येयैः संवत्सरैः पल्योपमसागरोपमाणि, समयाऽऽवलिकोच्छवासमुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगैः हीनः परिपूर्णस्थितिकनारकापेक्षयाऽसङ्घयेयभागहीनो भवति तदपेक्षया त्वितरोसङ्केययभागाभ्यधिकः, । तथा एकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः परस्य तान्येव पल्योपमैन्यूनानि, दशभिश्च पल्योपमकोटीकोटीभिरेकं सागरोपमं निष्पद्यते, ततः पल्योपमैन्यूनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्घयेयभागहीनः परिपूर्णस्थितिकस्तु तदपेक्षया समयेयभागाभ्यधिकः, तथैकस्य सागरोपममेकं स्थितिः अपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागपोपमाणि, तत्रैकसागोपमस्थितिकः परिपूर्णस्थितिकनारकापेक्षया सङ्घयेयगुणहीनः एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपूर्णस्थितिकत्वप्राप्तेः, परिपूर्णस्थितिकस्तु तदपेक्षया सङ्घयगुणाभ्यधिकः , - तथैकस्य दश वर्षसहस्राणि स्थितिः अपरस्य त्रयस्त्रिंशत्सागरोपमाणि, दश वर्षसहस्राण्यसङ्घयेयरूपेण गुणकारेण गुणितानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति, ततो दशवर्षसहस्नस्थितिकः त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षयाऽसङ्घयेयगुणहीनः तदपेक्षया तु त्रयस्त्रिंशत्सागरोपपस्थितिकोऽसङ्घयेयगुणाभ्यधिक इति, तदेवमेकस्य नारकस्यापरनाकापेक्षया द्रव्यतो द्रव्यार्थतया प्रदेशार्थताय च तुल्यत्वमुक्तं क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेने चतुःस्थानपतितत्वं कालतोऽपि स्थितितो हीनाधिकत्वेनचतुः स्थानपतितत्वं, इदानीं भावाश्रयं हीनाधिकत्वं प्रतिपाद्यते - यतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो द्रव्यक्षेत्रकालभावैर्विभज्यते यथा घटः - - तथाहि - द्रव्यत एको मार्त्तिकः अपरः काञ्चनो राजतादिर्वा क्षेत्रत एक इहत्यः अपरः पाटलिपुत्रकः कालत एकोऽद्यतनः अन्यस्तवैषमः परुत्तनो वा भावत एकः श्यामः अपरस्तु रक्तादिः एवमन्यदपि । तत्र प्रथमतः पुद्गलविपाकिनामकर्मोदयनिमित्तं जीवौदयिकभावाश्रयेण हीनाधिकत्वमाह - 'कालवन्नपज्जवेहिं सिय हीणे सिय तुल्ले सिय अब्महिए' अस्याक्षरघटना पूर्ववत्, तत्र यथा हीनत्वमभ्यधिकत्वं च तथा प्रतिपादयति 'जइ हीने' इत्यादि, इह भावापेक्षया हीनत्वाभ्यधिकत्वचिन्तायां हानी वृद्धौ च प्रत्येकं षट्स्थानपतितत्वमवाप्यते, षट्स्थानके च यद्यदपेक्षयाऽनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हृते यल्लभ्यते तेनानन्तमेन भागेन हीनं, यच्च यदपेक्षयाऽसङ्ख्येयभागहीनं तस्यापेक्षणीयस्यासङ्घयेयलोकाकाशप्रदेशप्रदेशप्रमाणेन राशिना भागे हृते यल्लभ्यते तावता भागेन न्यूनं यच्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy