SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १९२ प्रज्ञापनाउपाङ्गसूत्र-१-५/-1-1३०८ यदधिकृत्य सङ्घयेयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्ख्येयकेन भागेहते यल्लभ्यते तावताहीनं, गुणसङ्घयायांतुयद्यतः सङ्केयगुणं तदवधिभूतमुत्कृष्टेन सङ्खयेकेन गुणितं सद्यावद्भवति तावामाणमवसातव्यं, यच्चयतोऽसङ्खयेयगुणं तदवधिभूतमसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते गुणितंसद्यावद्भवति तावदवसेयं, यच्चयस्मादनन्तगुणंतदवधिभूतंसर्वजावानन्तकरूपेण गुणकारेण गुण्यते गुणितं सद्यावद्मवति तावत्प्रमाणंद्रष्टव्य, तथा चैतदेव कर्मप्रकृतिसङ्ग्रहिण्यां षट्स्थानकप्ररूपणाऽवसरेभागहारगुणकारस्वरूपमुपवर्णित 'सबजियानंतमसंखलोगसंखेजगस्स भागो तिसु गुणणातिसु' इति, सम्प्रत्यधिकृतसूत्रोक्तषट्स्थानपतितत्वं भाव्यते-तत्र कृष्णवर्णपर्यायपरिमाणंतत्त्वतोऽनन्तरसङ्ख्यात्मकमप्यसद्मावस्थापनया किल दशसहस्राणितस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पितेन भागो हियते लब्धं शतं तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दश सहस्राणि, अपरस्य तान्येव शतेन हीनानि शतं च सर्वजीवानन्तभागहारलब्धत्वादनन्ततमो भागः, ततो यस्य हीनानि दश सहस्राणि सोऽपरस्य परिपूर्णदशसहस्रप्रमाणकृष्णवर्णपर्यायस्य नारकस्यापेक्षयाऽनन्तभागहीनःतदपेक्षया तुसोऽपरः कृष्णवर्णपर्यायोऽनन्तभागाभ्यधिकः, तथा कृष्णवर्णपर्यायपरिमाणस्य दशसहस्रसङ्ख्याकस्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणपरिकल्पितेन पञ्चाशत्परिमाणेन भागहारेण भागो हियते लब्धे द्वे शते एषोऽसङ्खयेयतमो भागः, तत्रैकस्य किल नारकस्य कृष्णवर्णपर्याया दशसहस्राणि शतद्वयेन हीनानि अपरस्य परिपूर्णानि दश सहनणि तत्र यः शतद्वयहीनदशसहस्रप्रमाणकृष्णवर्णपर्यायः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया असङ्खयेयभागहीनः परिपूर्णकृष्णवर्णपर्यायस्तु तदपेक्षयाऽसङ्घयेयभागाभ्यधिकः, तथा तस्यैव कृष्णवर्णपर्यायराशेर्दशहसनसङ्ख्यायकस्योत्कृष्टसङ्खयेयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण भागो हियते तल्लब्धं सहस्रं एष किल सङ्ख्याततमो भागः, तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नव सहस्रणि अपरस्य दश सहस्राणि नव सहस्राणि तु दशसहस्रेभ्यः सहस्रेण हीनानि सहनं च सङ्खयेयतमो भाग इति नवसहनप्रमाणकृष्णवर्णपर्यायः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षया सङ्खयेयभागहीनः तदपेक्षया वितरः सङ्ख्येयभागाधिकः, तथैकस्य नारकस्य किल कृष्णवर्णपर्यापरिमाणं सहस्रं अपरस्य दश सहस्राणि, तत्र सहनं दशकेनोत्कृष्टसङ्घयातककल्पेन गुणितंदशसहस्रसङ्ख्याकं भवति इति सहस्रसञ्जयकृष्णवर्णपर्यायो नारको दशसहस्रसङ्ख्याककृष्णवर्णपर्यायनारकापेक्षया सङ्ख्येयगुणहीनः तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः सङ्घयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायानं वे शते परस्य परिपूर्णानि दश सहस्राणि, द्वे च शते असङ्ख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारेण गुणिते दश सहस्राणि जायन्ते, -ततो द्विशतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसङ्ख्येयगुणहीनः तदपेक्षया वितरोऽस्खयेयगुणाभ्यधिकः, तथैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं शतमपरस्य दश सहस्राणि शते च सर्वजीवानन्तपरिमाणपरिकल्पितेन (शत) गुण- कारेण गुणिते जायन्ते दश सहस्राणि, ततः शतपरिमाणकृष्णवर्णपर्यायो नारकः परिपूर्णकृष्णवर्ण-पर्यायनारकापेक्षया अननतगुणहीनः इतरस्तु तदपेक्षयाऽनन्तगुणाभ्यधिकः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy