________________
१९०
प्रज्ञापनाउपाङ्गसूत्रं-१- ५/-/-/३०८
तया द्रव्यार्थतया तुल्यः, एवं तावत् द्रव्यार्थतया तुल्यत्वमभिहितं ।
इदानीं प्रदेशार्थामधिकृत्य तुल्यत्वमाह-- 'पएसट्टयाए तुल्ले' इदमपि नारकजीवद्रव्यं लोकाकाशप्रदेशपरिमाणप्रदेशमिति प्रदेशार्थतयाऽपि नैरयिको नैरयिकस्य तुल्यः, प्रदेश एवार्थ प्रदेशार्थः तद्भावः प्रदेशार्थता तया प्रदेशार्थतया, कस्मादभिहितचमिति चेत्, उच्यते ।
द्रव्यद्वैविध्यप्रदर्शनार्थं, तथाहि द्विविधं द्रव्यं प्रदेशवत् अप्रदेशवच्च, तत्र परमाणुरप्रदेशः, द्विप्रदेशत्रिप्रदेशादिकं तु प्रदेशवत्, एतच्च द्रव्यद्वैविधयं पुद्गलास्तिकाय एव भवति, शेषाणि तु धर्मास्तिकायादीनि द्रव्याणि नियमात् सप्रदेशानि, 'ओगाहणट्टयाए सिय हीणे' इत्यादि, नैरयिकोऽसङ्ख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनमवगाहः - शरीरोच्छ्रयः अवगाहनमेवार्थोऽवगाहनार्थस्तद्मावोऽवगाहनार्थता तया अवगाहनार्थतया
—
'सिय हीणे' इत्यादि, स्याच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु, अत्रानेकान्तद्योतकस्य ग्रहणं, स्याद्धीनः अनेकान्तेन हीन इत्यर्थः स्यात्तुल्यः - अनेकान्तेन तुल्य इत्यर्थः, स्यादभ्यधिकः - अनेकान्तेनाभ्यधिक इति भावः, कथमिति चेत्, उच्यते, यस्माद्वक्ष्यति रत्नप्रभापृथिवीनैरयिकाणां भवधारणीयस्य वैक्रियशरीरस्य जघन्येना वगाहनाया अङ्गुलस्यासत्येयो भागः उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट्चाङ्गुलानि, उत्तरोत्तरासु च पृथिवीषु द्विगुणं द्विगुणं यावत् सप्तमनरकपृथिवीनैरयिकाणां जघन्यतोऽवगाहनाऽङ्गुलस्यासङ्घत्येयो भागः उत्कर्षतः पञ्चधनुःशतानीति । तत्र 'जइ हीणे, इत्यादि, यदि हीनस्ततोऽसङ्घयेयभागहीनो वा स्यात् सङ्घयेयभागहीनो वा सङ्घयेयगुणहीनो वा स्यात् असङ्खयेयगुणहीनो वा, अथाभ्यधिकस्ततो Sसययभागाभ्यधिको वा स्यात्सङ्घयेयभागाभ्यधिको वा सङ्घयेयगुणाभ्यदिको वाऽसङ्घयेयगुणाभ्याधिको वा, कथमिति चेत् ?, उच्यते, एकः किल नारक उच्चैस्त्वेन पञ्च धनुः शतानि अपरस्तान्येबाहुलासत्येयभागहीनानि अङ्गुलासङ्घयेयभागश्च पञ्चानां धनुः शतानामसङ्घयेये भागे वर्त्तते, तेन सोऽङ्गुलासङ्घयेयभाग- हीनपञ्चधनुः- शतप्रमाणः अपरस्य परिपूर्णपञ्चधनुः शतप्रमाणस्यापेक्षयाऽसङ्घयेयभागहीनः, इतरस्त्वितरापेक्षयाऽसङ्घत्येयभागाभ्यधिकः-
7
- तथा एकः पञ्चधनुः शतान्युश्चैस्त्वेन अपरस्तान्येव द्वाभ्यां त्रिभिर्वा धनुर्भिन्यूनानि ते च द्वे त्रीणि वा धनूंषि पञ्चाना धनुः-शतानां सङ्घयेयभागे वर्तन्ते ततः सोऽपरस्य परिपूर्णपञ्चधनुःशतप्रमाणस्यापेक्षया सङ्घयेयभागहीनः, इतरस्तु परिपूर्णपञ्चधनुः शतप्रमाणस्तदपेक्षया सङ्घयेयभागाभ्यधिकः, तथा एकः पञ्चविंशं धनुः शतमुच्चैस्तेवेनापरः परिपूर्णानि पञ्चधनुः शतानि पञ्चवंशं च धनुःशतं चतुर्भिर्गुणितं पञ्च धनुःशतानि भवन्ति ततः पञ्चविंशत्यधिकधनुःशतप्रमाणोच्चैस्त्वेऽप्यपरस्य
परिपूर्णपञ्चधनुः शतप्रमाणस्यापेक्षया सङ्घयेयगुणहीनो भवति तदपेक्षया त्वितरः परिपूर्णपञ्चधनुः शतप्रमाणः सङ्घयेयगुणाभ्यधिकः,
- तथा एकोऽपर्याप्तावस्थायामङ्गुलस्यासङ्घयेयभागावगाहे वर्त्तते अन्यस्तु पञ्चधनुःशतान्युचैस्तेवेन, अङ्गुलासत्येयभागश्चासङ्घयेयेन गुणितः सन् पञ्चधनुः शतप्रमाणो भवति, ततोऽपर्याप्तावस्थायामङ्गुलासङ्ख्येयभागप्रमाणेऽवगाहे वर्त्तमानः परिपूर्णपञ्चधनुः शतप्रमाणापेक्षया असङ्घयेयगुणहीनः, पञ्चधनुः शतप्रमाणस्तु तदपेक्षयाऽसङ्घयेयगुणाभ्यधिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org