SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७३ पदं-३, उद्देशकः-, द्वारं-२७ कल्पे चत्वारिंशत्सहस्राणि महाशुक्रे, अन्यच्चाधोऽधोविमानवासिनो देवा बहुबहुतराः स्तोकाः स्तोकतराश्चोपरितनोपरितनविमानवासिन; तत्सहस्रारदेवेभ्यो महाशुक्रकल्पदेवाअसङ्ख्येयगुणाः १५ तेभ्योऽपिपञ्चमधूमप्रभाभिधानरकपृथिव्यां नैरयिका असद्धयेयगुणाः, बृहत्तमश्रेण्यसङ्ख्येयावर्तिनमःप्रदेशराशिप्नमाणत्वात् १६ तेभ्योऽपि लान्तककल्पे देवा असङ्ख्येयगुणाः, अतिबृहत्तमश्रण्यस यवगगतनभःप्रदेशराशिप्रमाणत्वात् १७ तेभ्योऽपि चतुथ्यां पङ्कप्रभायां पृथिव्यां नैरयिका असङ्घयेयगुणा;, युक्तिः भावनीया १८ तेभ्योऽपि ब्रह्मलोककल्पे देवा असद्ध्येयगुणाः, युक्तिः प्रागुक्तैव १९ तेभ्योऽपितृतीयस्यां वालुकाप्रभायां पृथिव्यां नैरयिका असोययगुणाः २० -तेभ्योऽपि माहेन्द्रे कल्पे देवा असङ्खयेयगुणाः २१ तेभ्योऽपि सनत्कुमारकल्पे देवा असङ्खयेयगुणाः युक्तिः सर्वत्रापि प्रागुक्तैव २२ तेभ्यो द्वितीयस्यां शर्कराप्रभायांपृथिव्यां नैरयिका असङ्खयेयगुणाः २३, एते च सप्तमपृथिवीनारकादयोद्वितीयपृथिवीनारकपर्यन्ताः प्रत्येकं स्वस्थाने चिन्त्यमानाः सर्वेऽपिधनीकृतलोकश्रेण्यसङ्ख्येयभागवर्तिनमःप्रदेशराशिग्नमाणा द्रष्टव्याः, केवलं श्रेण्यसङ्खयेयभागोऽसङ्खयेयभेदभिन्नः तत इत्थमसङ्घयेयगुणतया अल्पबहुत्वमभिधीयमानं न विरुध्यते, तेभ्योऽपि द्वितीयनरकपृथिवीनारकेभ्यः संमूछिममनुष्या असङ्खयेयगुणाः २४ ।। __-ते हि अगुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवर्गमूले तृतीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावप्रमाणाः, तेभ्योऽपिईशाने कल्पेदेवा असङ्ख्येयगुणाः यतोधनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषुयावन्तोनभःप्रदेशाःतावप्रमाणईशानकल्पगतोदेवदेवीसमुदायः तद्गतकिंचिदूनद्वात्रिंशद्भागकल्पा ईशानदेवाः, ततो देवाः संमूर्छिममनुष्येभ्योऽसङ्खयेयगुणाः २५, तेभ्यईशानकल्पे देव्यः सङ्ख्येयगुणाः, द्वात्रिंशद्गुणत्वात् “बत्तीसगुणा बत्तीसवअहिआउ होति देवीओ'' इति वचनात् २६, ___-ताभ्यः सौधर्मेकल्पे देवाः सङ्खयेयगुणा;, तत्रविमानबाहुल्यात्, तथाहि-तत्र द्वात्रिंशच्छतसहस्राणिविमानानांअष्टाविंशतिशत सहस्राणि ईशाने कल्पे, अपिच-दक्षिणदिग्वर्ती सौधर्मकल्पः ईशानकल्पस्तूत्तरदिग्वर्ती दक्षिणस्यांचदिशि बहवः कृष्णपाक्षिकाः समुत्पद्यन्तेतत ईशानदेवीभ्यः सौधर्मदेवाः सञ्जयेयगुणाः, नन्वियं युक्तिमहिन्द्रसनत्कुमारकल्पयोरप्युक्ता, परंतत्रमाहेन्द्रकल्पापेक्षया सनत्कुमारकल्पे देवा असङ्खयेयगुणा उक्ताः, इह तु सौधर्मे कल्पे सङ्ख्येयगुणाः तदेवत् कथम्?, उच्यते, वचनप्रामाण्यात्, न चात्र पाठभ्रमः, यतोऽन्यत्राप्युक्तम्॥१॥ "ईसाणे सव्वत्थवि बत्तीसगुणाओ होंति देवीओ। संखिज्जा सोहम्मे तओ असंखा भवणवासी ॥” इति २७, -तेभ्योऽपि तस्मिन्नेव सौधर्मे कल्पे देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात्, “सव्वत्थवि बत्तीसगुणाओ हुंति देवीओं" इति वचनात् २८ ताभ्योऽप्यसङ्खयेयगुणा भवनवासिनः, कथम् इति चेत्, उच्यते, इह अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावप्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावप्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च भवनपतयो देवाः ततो घटन्ते सौधर्मदेवीभ्यस्तेऽसङ्खयेयगुणाः २९ तेभ्यो भवनवासिन्यो देव्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy